SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ६१२] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पाञ्चजन्यो मुकुन्देन देवदत्तः किरीटिना । कीर्तिवैतालिकौ शङ्खौ दध्माते मधुरध्वनी ॥६३॥ उभयव्यूहवर्तिन्योरन्योन्यं स्पर्धमानयोः । सङ्ग्रामोऽग्रपताकिन्योः प्रावर्तत भयङ्करः ॥६४॥ सर्वतः परिपीतार्कव्यूहयोरुभयोरपि । शरैः प्रसृमरैर्विश्वमेकच्छत्रमजायत ॥६५॥ मगधेश्वरशौण्डीरैर्गोविन्दस्याग्रसैनिकाः । ऊर्जस्विभिरभज्यन्त गजैः प्रतिगजा इव ॥६६॥ ते पलाय्य स्फुरल्लज्जाः केशवं शरणं ययुः । तान्सोऽप्याश्वासयामास त्रिपताकेन' पाणिना ॥६७॥ अथोच्चै रोहिणीसूनुर्निजगाद गदाग्रजम् । इतरेष दुर्भेदश्चक्रव्यूहश्चिरादपि ॥६८॥ ततो दक्षिणतो नेमिर्वामतः कपिकेतनः । मुखे पुनरनाधृष्टिभिन्दन्त्वेनं महौजसः ॥६९॥ एवमुक्तेन कृष्णेन न्ययुज्यन्त त्रयोऽपि ते । प्रावर्तन्त तथा कर्तुमेतेऽपि तपनद्युतः ॥७०॥ अरसन्धिषु नेमौ च सर्वं निर्जित्य राजकम् । चक्रव्यूहं द्विधा चक्रुः समं तेऽरिमनोरथैः ॥७१॥ तेषामनुपदं तत्र सैन्यानि विविशुः क्षणात् । पृष्ठतो यूथनाथानां यूथानीव वनान्तरे ॥७२।। ऊर्जस्वलभुजौर्जित्यस्तैर्मागधमहीपतेः । बलं विलोडयाञ्चक्रे गजैरिव महासरः ॥७३॥ समं नेमिजिनेन्द्रेण गजेन्द्रेणेव कुक्कुरः । कुरङ्ग इव सिंहेन रुक्मी योद्धमढौकत ॥७४॥ विक्रमोपक्रमस्तस्य जिने विफलतां ययौ । खद्योतस्येव मार्तण्डमण्डले द्युतिडम्बरः ॥७५॥ १. सरलाङ्गुलित्रयेण । २. चक्रव्यूहम् । ३. सूर्यसदृशतेजसः । 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy