SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः । कृष्ण- जरासंधसैन्ययोर्युद्धारभ्मः ॥ ] दन्तावलघटाभीष्मैर्भविता मगधेश्वरः । मिलितैस्तैस्तमः स्तोमस्तोयदैरिव दुर्जयः ॥ ५०॥ तदेव ! वसुदेवस्तान्प्रेष्यतां रोद्धुमुद्धतान् । पक्षच्छेदो विपक्षस्य नीतेरुपनिषत्परा ॥५१॥ धृत्वा विज्ञापनामेनां हृदि यादववासवः । वैताढ्ये विक्रमेणाढ्यं प्रैषीदानकदुन्दुभिम् ॥५२॥ सुतौ प्रद्युम्नसाम्बौ च समस्तांस्तांश्च खेचरान् । प्रस्थितेन समं तेन जयाय विससर्ज सः ॥५३॥ या नितान्तमरातीनामायुधौघविघातिनी । मेरौ जन्ममहे बाहौ बद्धपूर्वा सुपर्वभिः ॥५४॥ सा भुजे वसुदेवस्य प्रस्थितस्य महौषधी । अबध्यत स्वहस्तेन हृष्टेनारिष्टनेमिना ॥ ५५ ॥ युग्मम् । याते विजययात्रायां वेगादानकदुन्दुभौ । महेन्द्रसारथिर्नेमिमेत्य मातलिरब्रवीत् ॥५६॥ स्वामिन्नूचेऽहमाहूय मघोना जातु मातले ! । बान्धवार्थेऽस्ति युद्धार्थी नेमिर्द्वाविंशतीर्थकृत् ॥५७॥ दिव्यशस्त्रौघसम्पूर्णं भग्नवैरिमनोरथम् । रथं सवज्रसंनाहं गृहीत्वा त्वं व्रज द्रुतम् ॥५८॥ तदारोहत्विमं स्वामी गुणमाणिक्यरोहणः । इति विज्ञापनां तस्य कृतार्थीकृतवान्प्रभुः ॥५९॥ सभुजास्फोटसुभट गर्जदूर्जस्विकुञ्जरौ । उद्धतौ योद्धुमन्योन्यं व्यूहौ तावथ चेलतुः ॥६०॥ पीवरा हयहेषाभिरूर्जिता गजगजितैः । नभो बधिरयाञ्चक्रुश्चमूनिश्वासनिस्वनाः ॥६१॥ रणत्तूर्यनिनादेन द्विगुणोत्साहसम्पदाम् । शूराणां वज्रसन्नाहसंधयः शतधा ययुः ॥६२॥ १. ब्रह्मविद्या । [ ६११ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy