SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६१०] [ पाण्डवचरित्रमहाकाव्यम् । विद्याधरानामागमनम् ॥ देव ! दर्पात् तवारातिः स्फीतबाहुबलैर्बलैः । सनपल्लीसमीपस्थामुपतस्थे सरस्वतीम् ||३७| किन्तु धातुर्विपर्यास इव तस्यावसीयते । प्रतीपः साम्प्रतं येन मान्यानप्यवमन्यते ॥ ३८॥ हितमप्यहितं मित्रमप्यमित्र ( ) स्तव द्विषः । भागधेयविपर्यासात्सम्प्रति प्रतिभासते ॥ ३९॥ सनपल्लीं ततो गत्वा देव ! गृह्णातु कार्मुकम् । मगधानामधीशोऽयं यातु जामातुरन्तिकम् ॥४०॥ तदाकर्ण्य मुकुन्दोऽपि कुन्दोज्ज्वलमुखाम्बुजः । प्रतिष्ठते स्म देवक्या कृतप्रस्थानमङ्गलः ॥४१॥ जरासंधेन योद्धव्यमिदानीं कृष्णवैरिणा । इति प्रसृमरोत्साहाः प्रचेलुः पाण्डुसूनवः ॥४२॥ औदासीन्यादसंपूर्णकौतुकाः कौरवाहवे । पुरो बभूवुरौत्सुक्यात्कुमारा मुरविद्विषः ||४३|| उपाजगाम सङ्ग्राममहोत्सवसमुत्सुका । सनपल्लीवनान्तेषु जनार्दनपताकिनी ॥ ४४ ॥ आकर्ण्य मगधेशेन चक्रव्यूहं प्रकल्पितम् । निबिडं गरुडव्यूहं कारयामास केशवः ॥४५॥ ये पुरा वसुदेवेन वैताढ्ये सञ्चरिष्णुना । सहस्त्रैरुपकाराणां मित्रतामुपनिन्यिरे ॥ ४६ ॥ तेऽथ साहाय्यमाधातुमाहवक्षमबाहवः । समुद्रविजयं भूपमुपाजग्मुर्नभश्चराः || ४७॥ युग्मम् । प्रणम्य सुखासीना यदुराजं व्यजिज्ञपन् । सन्ति विद्याधराः केचिद्देव ! त्वदरिपाक्षिकाः ॥४८॥ सम्प्रत्यप्रतिमल्लास्ते समस्तध्वजिनीयुताः । जरासंधमुपस्थातुं निजस्थानात्प्रतस्थिरे ॥४९॥ १. प्रतिकूलः सन् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy