________________
चतुर्दशः सर्गः । जरासंधदूतस्यागमनम् ॥]
चतुर्दशः सर्गः ॥
दुर्योधनवधक्रुद्धमगधेशनिदेशतः । दूतः समेत्य वाक्पूतः कंसारातिमथाभ्यधात् ॥१॥ समाप्य कौरवान् दृप्यः कृष्ण ! मा स्म मनागपि । त्रिखण्डाखण्डलो यावद्विजयी मगधेश्वरः ||२|| प्रियं जामातरं कंसं सुहृदं च सुयोधनम् । अत्युत्सुकोऽयमाक्रष्टुं द्वावप्येतौ तवोदरात् ॥३॥ किन्तु त्वां व्याहरत्येष' पिच्छिला शोणितोर्मिभिः । अनेकाक्षौहिणीरुण्डैर्भूरियं स्थपुटापि च ॥४॥ ततस्त्यक्त्वा कुरुक्षेत्रं सम्परायक्षमक्षमे । सनपल्याह्वये ग्रामे सङ्ग्रामोऽस्त्वावयोरयम् ॥५॥ विस्फुरच्छफरीनेत्रा तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बुरियमेव सरस्वती ॥६॥ इत्युक्त्वा विरते दूते सावज्ञं केशवोऽब्रवीत् । बुभुक्षितानामस्माकमामन्त्रणमिदं वचः ||७|| जज्ञे नाद्यापि मद्बाहोः सौहित्यं कंस-कौरवैः । विधास्यति जरासंधः पुनस्तदधुना ध्रुवम् ॥८॥ तत्रैते वयमायाता एव सोऽप्येतु सत्वरम् । एवमाख्याय तं दूतं विससर्ज जनार्दनः ॥ ९॥ दूतोऽभ्येत्य जरासंधं धराधीशं व्यजिज्ञपत् । सर्वो देव ! तवादेशः केशवाय निवेदितः ॥ १०॥
१. जरासंधः । २. विषमापि अस्तीत्यर्थः । ३. 'तव' प्रतिद्वय । ४ तृप्तिः ।
[ ६०७
5
10
15
20