SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ६०६ ] धृतराष्ट्रं समं ताभिः समस्ताभिः पुरंध्रिभिः । प्रेषयामास नगरं धर्मभूर्नागसाह्वयम् ॥११०८॥ युग्मम् । अवेक्षणीयाः स्वयमेव तावत्प्रजाः प्रतीक्षैः प्रयतैरजस्रम् । यावज्जरासंधवधं विधाय हरेर्निदेशादहमभ्युपैमि ॥११०९॥ 5 विज्ञप्तिमेवं चरणप्रणामपूर्वं जयोदन्तपुरःसरं च । [ पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्रादीनां हस्तिनापुरे गमनम् ॥ 10 प्रयास्यता सात्यकिना तदानीं तपःसुतः कारयति स्म पाण्डोः ||१११० ॥ युग्मम् । इत्थं क्रोधाद्विधाय प्रधनभुवि रिपुव्रातकल्पान्तमन्तः प्रीतिं तां तां वहन्तः पुनरखनिपरी भोगलाभप्रसूताम् । तुष्टिं पुष्टामरिष्टद्विषति रचयितुं मागधक्षोणिभर्तुः संहारेणाथ तस्थुः किसलयितमहस्ताण्डवाः पाण्डवेयाः ||११११ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पाण्डवकौरवयुद्धवर्णने नाम त्रयोदशः सर्गः ॥१३॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy