SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ [६०५ त्रयोदशः सर्गः । मृतानां संस्कारः ॥] मित्रकृत्यमयप्राणे स्वामिन्नस्तं गते त्वयि । स्वच्छन्दमद्य मोदन्तां त्वन्मित्राणामरातयः ॥१०९५॥ इतोऽप्याप्यकरं पत्युरङ्गुलीयोपलक्षितम् । इति भूरिश्रवःपत्न्यस्तारं परिदिदेविरे ॥१०९६॥ सैष नः स्तनकार्कश्यसुहज्जघनबान्धवः । नाभीदुर्ललितो नीवीमोक्षकेलिकर: करः ॥१०९७।। सैष ज्याकर्षणाक्लाम्यदङ्गुलीवलयोज्ज्वलः । कृष्टदुष्टारिवामाक्षीशिर:केशोत्तकर: करः ॥१०९८।। सैष नम्रारिभूपालपृष्ठविश्रामनैष्ठिकः ।। समस्तार्थिचमूदत्तहिरण्यनिकरः करः ॥१०९९॥ एकच्छवामिमां धात्रीं यस्य स्वैरं वितन्वतः । कुर्वन्ति स्म शराः पूर्वं वंशच्छेदं महीभृताम् ॥११००॥ हा ! नाथ ! मथितानेकवीरकिर्मीरिते रणे । सोऽपि त्वमधुना पाणिमात्रगात्रो विलोक्यसे ॥११०१॥ युग्मम् । त्वामद्य हरता वीर ! वेधसा मन्दमेधसा । शृङ्गारश्च विलासश्च रतिश्च हियते स्म नः ॥११०२॥ इत्याद्यन्या अपि प्राप्य प्राणनाथं निजं निजम् । विलापतुमुलाः कामं क्रन्दतीमुंगचक्षुषः ॥११०३॥ संसारभङ्गरीभावभावितैरमृतोपमैः । तैस्तैः सम्बोधयाञ्चक्रे वचोभिस्तपसः सुतः ॥११०४॥ युग्मम् । अथादेशादजातारे भुजां प्लवगध्वजः ।। आग्नेयास्त्रेण सर्वेषामग्निसंस्कारमादधे ॥११०५॥ स्कन्धावारं ततोऽभ्येत्य भ्रातृणामौर्ध्वदेहिकम् । सहैव धृतराष्ट्रेण पाण्डवेया वितेनिरे ॥११०६॥ ताभिस्ताभिः क्रियाभिश्च शोकमाक्षिप्य तत्क्षणात् । वितीर्णविनयादेशं सहायीकृत्य सात्यकिम् ॥११०७॥ १. पुरंदरपुरीदरम् प्रतिद्वय । २. किर्मीरितं-विचित्रम् । 16 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy