________________
5
10
15
20
25
६०४]
[ पाण्डवचरित्रमहाकाव्यम् । दुःशल्याकृतः विलापः ॥
मांसलेऽपि व्यलीके प्राग् नासंभाषं मयि व्यधाः । निर्व्यलीकामपीदानीं मां न सम्भाषसे कथम् ? ॥१०८२॥ मदीयं यदि वा किञ्चिद्व्यलीकमपि मन्यसे । तदाविष्कुरु येन त्वां सद्यः प्रत्याययाम्यहम् ॥१०८३॥ चेत्प्रसन्नमना एव वर्तसे यदि वा मयि । तन्निजैर्मां निषिञ्चस्व विलोकनसुधारसैः ॥१०८४॥ मां विहाय पुरा नाथ ! नैव लीलावनेऽप्यगाः । किमद्य परलोकाय प्रस्थितोऽसि मया विना ? || १०८५ ॥ स्वामिन् ! विश्वस्य विश्वस्य नित्यमास्थाय नाथताम् । प्रयातास्म्यहमप्यद्य त्वां विना नन्वनाथताम् ॥१०८६॥ ममाभूत्त्वद्विमुक्तायाः पूषाऽप्येष तमोमयः । जाताश्चैते दवप्रायाः स्वामिन् ! प्राभातिकानिलाः ॥१०८७॥ पतत्रिण इव ध्वस्ते कुलायजगतीरुहे । किं विपन्ने त्वयीदानीं श्रयेयुरनुजीविनः ? ॥१०८८॥ भानुमत्यामिति स्फारं क्रन्दन्त्यां करुणैः स्वरैः । दुःशल्याऽप्यथ गान्धारीधृतराष्ट्रतनूद्भवा ॥१०८९॥ दुर्योधनस्वसा प्राणप्रियं समरशायिनम् । आसाद्य सिन्धुभूषालं रुदती पर्यदेवत ॥ १०९०॥ युग्मम् । हाऽभिराम गुणग्राममरालकुलमानस ! । हा ! सिन्धुवनितानेत्रकैरवाकरचन्द्रमः ! ॥१०९१॥ न नामास्ति ममानृण्यं प्राणेश ! प्रणयेऽपि ते । मद्बन्धोर्यत्पुनः प्राणान्स्वानदास्तत्र किं ब्रुवे ? ॥१०९२॥ हा ! ममास्तमिते तुल्यं पितृश्वशुरयोः कुले । मण्डले दर्शयामिन्यां सूर्याचन्द्रमसोरिव ॥१०९३॥ यैर्नाज्ञायि पुरा काचित्कथाऽपि परिपन्थिनाम् । त्वां विना ते महावीर ! किं भविष्यन्ति सिन्धवः ? || १०९४॥
१. नीडवृक्षे ।