SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ६०२] [पाण्डवचरित्रमहाकाव्यम् । युद्धभूमौ भानुमत्याः विलापः ॥ देवरीभिः समं सर्वराजन्यानां च यौवतैः । श्वश्रूमन्वचलद् भानुमती दुर्योधनप्रिया ॥१०५६॥ तामनेकमहावीरकरङ्कनिकराङ्किताम् । वीक्ष्य युद्धक्षितिं तासां हृदयानि विदुद्रुवुः ॥१०५७।। तासां युगपदाक्रन्दप्रतिध्वनिभिरुद्धतैः । क्रन्दन्त्य इव भान्ति स्म दिशस्तच्छोकविक्लवाः ॥१०५८॥ गदाप्रहारभग्नोरु परिच्छदनिवेदितम् । गान्धारी स्नुषया सार्धं कौरवेश्वरमभ्यगात् ॥१०५९॥ शोणितोक्षितसर्वाङ्गानन्या अपि मृगीदृशः । उपलक्ष्योपलक्ष्य स्वान्वल्लभानभिशिश्रियुः ॥१०६०॥ पृथक्पृथक्परिभ्रष्टानस्राविलविलोचना । शरीरावयवान्पत्युः काऽपि कृच्छादमीलयत् ॥१०६१॥ वक्षःपीठेऽन्तिमाश्लेषसक्तैः स्वस्तनकुङ्कमैः । काऽप्युपालक्षयत् पत्युः कबन्धं न पुनः शिरः ॥१०६२॥ अन्त्यचुम्बनसङ्क्रान्तात्कस्तूरीतिलकान्निजात् । प्रत्यभ्यजानात्कान्तस्य काऽप्यास्यं न पुनर्वपुः ॥१०६३॥ काऽप्यन्त्यचुम्बनव्याजादभिज्ञानं प्रियानने । निजौष्ठयावकैः क्लृप्तं नापश्यद्रुधिरैस्तदा ॥१०६४॥ स्वकान्तवदने मौग्ध्यादन्यस्याङ्गे नियोजिते । चिरं भर्तृविवादोऽभूत्कस्याश्चित्तस्य कान्तया ॥१०६५॥ काऽपि सर्वाङ्गसंसक्तै रक्तैरव्यक्ततां गतम् ।। स्वप्राणेशभ्रमादन्यमप्यालिङ्गत्पुनः पुनः ॥१०६६॥ मानात्काऽप्यन्तिमाश्लेषे निराकृत्य प्रियं पुरा । मृतं तु सस्वजे स्वागः शोचन्ती तत्पुनस्तमाम् ॥१०६७।। भर्तुरादाय मूद्धानं करे कायगवेषिणी । कापि क्षेत्रक्षितिं सर्वां काली साक्षादिवाभ्रमत् ॥१०६८॥ 15 25 १. युवतिसमूहैः । २. करकं-शीर्षम् ।.
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy