SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ [६०१ त्रयोदशः सर्गः । गान्धार्यादीनां युद्धभूमौ आगमनम् ॥] किं च बन्धुभिरप्यात्तां पाण्डवेया यथा तथा । त्यजेयुर्यदि धात्री तल्लज्जयेयुर्न ते कुलम् ? ॥१०४३॥ कुर्वता पुनरन्यायमयौष्माककुलोचितम् । यदि जानासि तत्कामं कौरवेणासि लज्जितः ॥१०४४॥ सुता अपि सतां द्वेष्याः शत्रुवत्कलितानयाः । न्यायिनस्तु परेऽप्युच्चैर्वल्लभा एव पुत्रवत् ॥१०४५॥ अमी तु पाण्डवाः स्फीतनयाश्च तनयाश्च ते । तदेतेषु विशेषेण प्रसत्तिं गन्तुमर्हसि ॥१०४६॥ क्रमावनतमर्दानो गान्धार्यां त्वयि चान्वहम् । भक्ति चैते करिष्यन्ति कोरवेभ्योऽधिकां ध्रुवम् ॥१०४७॥ तत्प्रसन्नं मनः कृत्वा विस्मृत्य च रुषं मनाक् । उभावपि युवां दत्तं पृष्ठेऽमीषां करं मुदा ॥१०४८॥ सर्वथाऽप्यस्य विश्वस्य केलय त्वमनित्यताम् । पीडयेत्पुत्रशोकोऽपि कं हि नाम विवेकिनम् ? ॥१०४९॥ इति मन्दीकृतामर्षों गिरा दामोदरीयया । तौ पृष्ठे पाण्डवेयानां कृच्छ्रेण ददतुः करम् ॥१०५०॥ दैवस्यैवापराधोऽयं न वो नास्मत्तनूरुहाम् । इत्युत्थाप्य क्रमानम्रानमूनालिङ्गतः स्म तौ ॥१०५१॥ व्याजहाराथ गान्धारी वत्सा ! मद्बालकाः स्थ चेत् । तम्मां सङ्ग्रामसीमानमिदानी नयत द्रुतम् ॥१०५२॥ यथा विप्रोषितासूनां सर्वेषामात्मजन्मनाम् । करोमि मन्दभाग्याऽहमन्त्यमाननदर्शनम् ॥१०५३।। ततस्तिग्मद्युतौ पूर्वशैलशृङ्गान्तरङ्गिणि । समवस्थाप्य तत्रैव धृतराष्ट्रं कथञ्चन ॥१०५४।। पाण्डवेयाः स्वयं भक्त्या दत्तहस्तावलम्बनाम् । उदश्रुनयनां निन्युर्गान्धारी समराजिरम् ॥१०५५॥ १. युष्माकं कुलस्यानुचितम् । २. कलयतमनि० प्रतिद्वयपाठः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy