SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 10 ६००] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां गान्धारी प्राते गमनम् ॥ रक्षिता अपि हि प्राणा यास्यन्त्येव कदाऽप्यमी । ते तु कस्मिंश्चिदप्यर्थे यान्ति चेत्तत्फलं महत् ॥१०३०॥ बान्धवा अपि हन्यन्तां म्रियन्तां तनया अपि ।। नन्दन्ति दयितानां तु कुशलेन पतिव्रताः ॥१०३१॥ तन्मुञ्च शुचमात्मानं संस्थापय विसंस्थुलम् । द्रुपदस्य तनूजाऽसि श्रीपाण्डोश्च वधूरसि ॥१०३२।। इत्याद्यैर्मुरजिद्वाक्यैः पाण्डवेयानुमोदितैः । मुञ्चति स्म शनैः शोकश्यामिकां द्रुपदात्मजा ॥१०३३।। अथ प्रभातकल्पायां क्षपायां शौरि-पाण्डवाः । धृतराष्ट्रं सपत्नीकमपशोकयितुं ययुः ॥१०३४॥ तत्राभ्येत्य भृशं मग्नौ शोकनाम्नि महार्णवे । गान्धारी धृतराष्ट्रं च नमस्यन्ति स्म पाण्डवाः ॥१०३५॥ भक्तिप्रह्वतरं तेषु नमस्कुर्वत्सु रोषणौ । पुनः पीनोच्छलच्छोकौ तौ पराञ्चौ बभूवतुः ॥१०३६॥ पाण्डवेष्वथ तत्पादतले लुलितमौलिषु । वाग्मिनामग्रणीरेवं गदति स्म गदाग्रजः ॥१०३७॥ राजन्नमी न किं पाण्डुसूनवस्तव सूनवः ? । न क्वचिद्भक्तिरप्येषां पाण्डुतस्त्वयि हीयते ॥१०३८॥ पूज्यां हृदि पृथातोऽपि गान्धारी धारयन्त्यमी । कुरवोऽपि तपःसूनोीमादिभ्योऽपि वल्लभाः ॥१०३९॥ यत्तु दूरमनाख्येयमभूदेतदमङ्गलम् । तत्र मन्ये दुरात्माऽयं विधिरेवापराध्यति ॥१०४०॥ पञ्चग्राम्याऽप्यमी पाण्डुसुताः संधित्सवस्तदा । कौरवेण निरस्ता यदैवदौरात्म्यमेव तत् ॥१०४१॥ यन्निराचक्रिरे तेन गिरो युष्मादृशामपि । हेतुस्तत्रापि जागर्ति केवलं भवितव्यता ॥१०४२॥ 15 20 25 १. संधि कर्तुमिच्छवः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy