________________
10
त्रयोदशः सर्गः । द्रौपदीकृतः विलापः ॥]
ज्ञातसंसारतत्त्वाश्चेद्यूयमप्यास्पदं शुचः । भविष्यति ततो नूनमादित्योऽपि तमःपदम् ॥१०१७॥ सम्भाव्य द्रौणिमुख्यानामिदमापातिसौप्तिकम् ।। स्वानीकमानयं युष्मान्बलानुनयहेतवे ॥१०१८॥ पितृस्वामिवधक्रोधादयं हि द्रोणनन्दनः ।। श्रान्तसुप्तान्ध्रुवं हन्याधुष्मानेव चमूस्थितान् ॥१०१९॥ तदेतावान् समस्तोऽयमारम्भो विफलीभवेत् । पुत्रास्तु सत्सु युष्मासु नातिदुर्लम्भसम्भवाः ॥१०२०॥ तद्विमुच्य शुचं वेगात्प्रतिष्ठध्वं चमू प्रति । सान्त्वयामो यथा कृष्णां पुत्रभ्रातृवधादिताम् ॥१०२१॥ इत्यच्युतगिरा शोकं शिथिलीकृत्य पाण्डवाः ।. स्थानस्थानोद्यदाक्रन्दं निजं शिबिरमागमन् ॥१०२२॥ तत्र भूलुठनव्यग्रामग्रतो लुलितालकाम् । क्रन्दन्तीं तारतारं ते ददृशुद्रपदात्मजाम् ॥१०२३॥ हा ! वत्सा ! हा ! महावीरा हा जनन्येकचेतसः ! । ..... क्व नाम यूयं याताः स्थ मन्दभाग्यां विमुच्य माम् ? ॥१०२४॥ इत्याद्यनेकधा बद्धपरिदेवनविक्लवाम् । सान्त्वयामास कंसारिरिति द्रुपदनन्दिनीम् ॥१०२५॥ कल्याणि ! वीरपत्नीनां न खल्वेष विधिः क्वचित् । शोकेन परिभूयन्ते ह्यल्पीयस्यः पुरंध्रयः ॥१०२६॥ .. प्रनष्टैरात्मजैराजौ लज्जन्ते वीरयोषितः । ... मोदन्ते तु श्रितैर्मृत्युमूर्वीभूतैर्विजित्य वा ॥१०२७॥ :: बान्धवौ तव तौ धन्यौ धन्यास्ते च तनूद्भवाः ।। कुलैकतिलकैः प्राणान्यैस्त्यजद्भिनिजान् रणे ॥१०२८॥ दीयते स्म चिरं तुभ्यमवैधव्यमखण्डितम् । . चक्रे च कीर्तिरात्मीया लोकालोकावलोकिनी ॥१०२९॥ युग्मम् ।
१. रात्रियुद्धम् । २. 'स्वानीकं प्रति संचेलुः सुप्रसन्नमुखश्रियः' इति भवेदिति गद्यपाण्डवचरिताज्ज्ञायते ।
15
20