SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५९८] [पाण्डवचरित्रमहाकाव्यम् । युद्धविरामः ॥ हा ! कौरवकुलोत्तंस ! हा ! गुरुष्वेकवत्सल ! । हा ! नि:सामान्यसौजन्य ! हा ! दुराक्रमविक्रम ! ॥१००४॥ हा ! कृपाणपयःपूरप्लावितारातिमण्डल ! । हा ! नताखिलभूपालमौलिमालाञ्चितक्रम ! ॥१००५।। हा ! दुर्योधन कुत्रावां विहाय गतवानसि? । किं नामाभूद्विरोधिभ्यस्तवापीदममङ्गलम् ? ॥१००६॥ बभूव पुरतो यस्य वासवोऽपि कृपाऽऽस्पदम् । दैवादहह ! तस्यापि का तवेयं दशाऽभवत् ? ॥१००७॥ भवन्तं हरता वीर ! मृत्युनाऽद्य दुरात्मना । आकृष्टा यष्ठिरेवेयमन्धयोरावयोः करात् ॥१००८॥ वीर ! यातेऽद्य विश्वानामेकचन्द्रमसि त्वयि ।। को धिनोतु निराधाराननुजीविचकोरकान् ? ॥१००९॥ त्वां विना जगदप्येतदद्य शून्यं बभूव नौ । शोकान्धयोध्रुवं चेयं शाश्वती भविता तमी ॥१०१०॥ इत्थं विलपतोस्तारं क्रन्दतोर्बहुमूर्च्छतोः । निघृणं निघ्नतोर्वक्षः क्षमापृष्ठे लुठतोर्मुहुः ॥१०११॥ हालाहलमयं वह्निमयं मृत्युमयं जगत् । तदाऽभूत्सुतशोकेन गान्धारीधृतराष्ट्रयोः ॥१०१२॥ युग्मम् । इतश्च पाण्डवाः क्रुद्धं प्रसाद्य शितिवाससम् । यावदुच्चेलुरात्मीयां प्रमोदात् पृतनां प्रति ॥१०१३।। तावदुद्वेपथुर्भीत्या वेगादागत्य सात्यकिः । पाञ्चालादिवधोदन्तमादितस्समचीकथत् ॥१०१४॥ तूर्णमाकर्ण्य तं कर्णक्रोडक्रकचकर्कशम् । शोचतः पाण्डवान्कामं मुरारातिरवोचत ॥१०१५॥ वीराः ! किमिव युष्माकमप्यदः स्फुरितं शुचाम् ? । काञ्चनस्याप्यसौ किञ्चिन्मन्ये मालिन्यसम्भवः ॥१०१६॥ 15 25 १. रात्रिः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy