SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ५९६] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ तयोनिहतयोद्धेषरागयोरिव तैः क्षणात् । कर्मानीकमिवानेशत्पार्थीयमखिलं बलम् ॥९७८॥ पञ्चानां पाण्डवेयानां द्वितीया इव मूर्तयः । पाञ्चालीकुक्षिकासारपुण्डरीकास्ततो जवात् ॥९७९॥ विशिखा इव पञ्चेषोर्जगद्भिरपि दुर्जयाः । क्रुद्धाः पञ्चापि पाञ्चाला भजन्ते स्माभ्यमित्रताम् ॥९८०॥ युग्मम् । पाण्डवेयभ्रमाद्रात्रौ द्रौणिप्रभृतयोऽपि ते । धावन्ति स्माधिकक्रोधगरिष्ठभुजसौष्ठवाः ॥९८१॥ अथाभूदुभयेषामप्यमीषामितरेतरम् । विमुक्तैः पत्रिभिः प्राणप्रयाणप्रवणो रणः ॥९८२॥ प्रतिपक्षोदयाः सम्यग मन्त्राङ्गैरिव पञ्चभिः । कार्ष्णेयैर्व्यक्क्रियन्ते स्म द्रौणिमुख्यास्त्रयोऽपि ते ॥९८३।। तैरथोज्जागरूकाभिर्लज्जाभिरतितजितैः । सारसर्वाभिसारेण प्रहर्तुमुपचक्रमे ॥९८४॥ पाञ्चालविशिखान्बाणश्रेणिोणेरशोषयत् । नैदाघस्य रवेरुस्रमण्डलीव जलाशयान् ॥९८५॥ पञ्चताशालिनी शश्वद्विभ्रतामभिधामपि । कार्ष्णेयानां ततश्चक्रे पञ्चतैव तदाशुगैः ॥९८६॥ तच्छिरांसि क्षणाच्छित्त्वा पाण्डवेयधियैव तैः । अश्वत्थामादिभिः प्रीतैर्निन्यिरे कौरवान्तिकम् ॥९८७॥ वेदनातिशयान्मूर्च्छन्मू मुकुलितेक्षणः । तत्र तैर्ददृशे श्वासमात्रशेषः सुयोधनः ॥९८८॥ सर:सलिलसेकेन प्रत्याहृत्याथ चेतनाम् । सानन्दस्य पुरस्तस्य मुञ्चन्ति स्म शिरांसि ते ॥९८९॥ क्षणाच्चारणिकाष्ठानि ते निर्मथ्य पृथूजिताः । रचयाञ्चक्रुरुयोतं द्योतिताखिलभूतलम् ॥९९०॥ 2n 25 १. किरणसमूहः । २. 'भ्रतां नवतामपि' प्रतिद्वयपाठ: तत्र नवतां यौवनम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy