________________
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
तद्विधृत्य मयि प्रीतिमाविःकृत्याप्यनुग्रहम् । मूर्ध्नः पाण्डुभुवां कृत्तान् यदि दर्शयसि क्षणात् ॥९६५॥ प्रस्थितस्य तदेदानीं वर्तनीं पारलौकिकीम् ।
ममानन्दमयं दत्तं पाथेयं भवता भवेत् ॥ ९६६ ॥ युग्मम् । अजेयोऽसि त्वमेकोऽपि शात्रवाणां शतैरपि । कृतवर्मकृपाचार्यसङ्गतस्तु किमुच्यते ? ॥९६७॥ इत्यादि द्रौणिमाभाष्य कृतवर्मकृपान्वितम् । वधाय पाण्डुपुत्राणां प्राहिणोद् धृतराष्ट्रभूः ॥९६८॥ ते त्रयोऽपि ततोऽनेकभटश्रेणिविसङ्कटम् । अह्नाय पाण्डवेयानां स्कन्धावारमुपागमन् ॥९६९॥ रे कौन्तेयचमूसैन्याः ! सत्वरं कुरुतायुधम् । क्रुद्धो युष्मासु नन्वश्वत्थामनामा यमोऽधुना ॥ ९७०॥ इति द्रौणिगिरं श्रुत्वा स्फूर्जथुस्फूर्जितापहम् । चापारोपनिनादं च त्रयाणामपि दोर्भृताम् ॥९७१ ॥ द्रवन्निद्रासुखं काममुच्छलत्तुमुलारवम् । क्षुभ्यति स्म क्षणात्सर्वं शिबिरं पाण्डुजन्मनाम् ॥९७२॥ त्रयाणामपि निःशेषं तेषां विशिखपङ्क्तिभिः । कल्पान्ताशनिकल्पाभिः पाण्डवानीकमानशे ॥ ९७३ ॥ कोदण्डमधिमौर्वीकं कुर्वाणौ रभसात्ततः ।
धृष्टद्युम्नः शिखण्डी च धावतः स्म महाभुजौ ॥९७४॥ ततस्ताभ्यां भृशं दुष्टग्रहाभ्यामिव सर्वतः । क्रियते स्म कृपादीनां बाणवृष्टेरवग्रहः ॥९७५॥ पराक्रममयीं काञ्चिदिष्टिमिष्ट्वा भटाहुतिम् । तौ क्षणालम्भितौ शान्तिमश्वत्थामादिभिस्ततः ॥ ९७६ ॥ मूर्द्धानौ तैर्निकृन्तद्भिर्धृष्टद्युम्नशिखण्डिनोः । वैरिनिर्यातनं काममकारि द्रोणभीष्मयोः ॥ ९७७॥
१. मार्गम् । २. वज्रध्वनिनाशकरीम् ।
[५९५
5
10
15
20
25