SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५९४] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ महाराज ! त्वमेवासि मानिनामधिदैवतम् । ईदृशेऽपि स्थिते येन दैन्यं चक्रे न वैरिषु ॥९५२॥ वयं तु कर्मचाण्डालाः कृतजैकधुरंधराः । शत्रुभिः पश्यतां येषां लम्भितोऽसि दशामिमाम् ॥९५३॥ किं त्विदानीमधोऽस्माभिः स्थितैर्यग्रोधभूरुहः । वनेऽस्मिन्महती दृष्टा युक्तिः प्रत्यर्थिमन्थने ॥९५४॥ तत्र हि क्षणदादक्षचक्षुषाऽभ्येत्य तत्क्षणात् । काकानीकमुलूकेन सर्वं सुप्तमहन्यत ॥९५५॥ तद् दृष्ट्वा तुष्टचेतोभिरित्यस्माभिरचिन्त्यत । . यदेकोऽप्यखिलान्हन्ति कालमालम्ब्य शात्रवान् ॥९५६।। अस्माभिरपि तन्नूनमिदानीं निशि पाण्डवाः । रणोत्तीर्णतया स्वैरस्वपना नातिदुर्जयाः ॥९५७॥ इत्यालोच्य वयं रात्रिसङ्गरे कृतसङ्गराः । भवदादेशमादातुमिहागच्छाम सम्प्रति ॥९५८॥ जीवतस्ते बलाच्छित्त्वा पाण्डुपुत्रशिरांसि चेत् । दर्शयेमहि तत्किञ्चिदानृण्यं त्वयि नो भवेत् ॥९५९॥ इत्येतैर्वचनैस्तेषां पीयूषरसवर्षिभिः । विस्मृत्य वेदनावेगमाकृष्याश्लिष्यति स्म तान् ॥९६०॥ वक्ति स्म च महावीरा ! जल्पतेदं पुनः पुनः । तच्छिरांसि द्विषां छित्त्वा दर्शयिष्यामहे तव ॥९६१॥ न तत्किमपि युष्मासु यन्न सम्भाव्यते खलु । किञ्चिन्नास्त्येव यच्चिन्तारत्नस्यापि दवीयसि ॥९६२॥ तज्जवाद्गच्छत छित्त्वा मौलीन्दर्शयत द्विषाम् ।। मदीयैर्न खलु प्राणैः स्थातुमीशिष्यते चिरम् ॥९६३॥ अश्वत्थामन् ! गुरोस्तस्य तनयोऽसि त्वमौरसः । मानसोऽहं पुनस्तेन महज्ज्ञातेयमावयोः ॥९६४॥ 15 25 १. सुखसुप्ताः । २. कृतप्रतिज्ञाः
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy