SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ [५९३ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] धिग् धिग् बतेदमक्षत्रं न म्लेच्छेष्वपि वर्तते । रिपोरपि किरीटो यत्पेतुषः पिष्यते पदा ॥९३९॥ कदाचिदपि कस्यापि नैवान्यायमहं सहे । मादृग्विधा हि सर्वेषामनाचारचिकित्सकाः ॥९४०॥ ममैतन्मुसलं कोपादन्यायस्यास्य यत्फलम् ।। पञ्चानां पाण्डुपुत्राणां तत्सद्योऽदर्शयिष्यत ॥९४१॥ नाभविष्यदिदं हन्त यदि ज्ञातेयमन्तरा । तथापि मुखमीक्षिष्ये नाहमेषामतः परम् ॥९४२॥ युग्मम् । इति सङ्कर्षणो रोषकलुषः परुषाक्षरम् । उदीर्य निजमावासं त्वरितं त्वरितं ययौ ॥९४३॥ रौहिणेयानुवृत्त्येव कर्मसाक्ष्यपि तत्क्षणात् । रोषावेशवशात्ताम्रः क्वापि द्वीपान्तरेऽगमत् ॥९४४॥ तथैव पतिते कामं वेदनाविमनीकृते । कोपादुज्झति कौरव्ये निश्वासान्नासिकंधमान् ॥९४५॥ मुरारातिरथाकृष्य साकूतः पाण्डुनन्दनान् । ज्यायांसं भ्रातरं मान्यमनुनेतुमचालयत् ॥९४६॥ युग्मम् । दक्षौ शिबिररक्षायै धृष्टद्युम्नशिखण्डिनौ । आदिश्य सह कृष्णेन पाण्डवेयाः प्रतस्थिरे ॥९४७॥ आयोधनाध्वजङ्घालैः पाञ्चालैः समलङ्कृतम् । आदाय सैन्यमावासाज्जग्मतुर्द्रपदात्मजौ ॥९४८॥ ततो दिङ्मुखकस्तूरीपत्त्रभङ्ग्य इवोदगुः । कौरवेश्वरनिश्वासधूमसान्द्रास्तमश्छटाः ॥९४९॥ सहस्रगुणितध्वान्ता मूर्छाभिः कौरवैशितुः । साकं तैस्तैर्मनोदुःखैः प्रससार तमस्विनी ॥९५०॥ अथाभ्येत्य तथासंस्थमूचिरे मन्युगद्गदम् । कृतवर्मकृपद्रोणसूनवः कुरुपुङ्गवम् ॥९५१॥ १. ज्ञातिसंबंधः । २. युद्धमार्गपथिकैः । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy