SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 10 ५९२] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ अयं हि खुरलीरङ्गे कुर्वाणो गदया श्रमम् । नित्यं लोहमयं भीमं भस्मसादकरोत्पुरा ॥९२६।। तदेतस्य पुरो वैरिकुले कालानलन्नपि । शङ्के न खलु बंहीयान् भीमोऽपि भुजसम्पदा ॥९२७॥ किन्तु चेत्प्रहरत्येनमूरुदेशे वृकोदरः । तदानीं नातिदुर्लम्भं जयं सम्भावयामि वः ॥९२८।। भारतीमित्युपश्रुत्य फाल्गुनो वनमालिनः । कौरव्योरुप्रहाराय मारुति समकेतयत् ॥९२९॥ तं सङ्केतं विदामास कोविदः कौरवाग्रणीः । रणसंरम्भसम्भ्राम्यदम्बको न बकान्तकः ॥९३०॥ कुरूणामग्रणीरूरुघातं वञ्चयितुं ततः । मनागुच्छलति स्मोर्ध्वं मण्डूक इव भूतलात् ॥९३१॥ पूर्वाङ्ग इव निर्मुक्तः प्रहारस्तु बकारिणा । तस्याभाङ्क्षीदुभावूरू न धीर्दैवाद्बलीयसी ॥९३२॥ उत्फालः शैलशृङ्गान्तात्कण्ठीरव इवावनौ । भग्नोरुः क्रोधधूमायमानो दुर्योधनोऽपतत् ॥९३३॥ असावथ व्यथापूरपूरितोऽपि क्रुधा मुहुः । फणीन्द्रवत्फटाघातान् गदाघातानमुञ्चत ॥९३४॥ तदवस्थेऽप्यनिर्वाणरणारम्भे च कौरवे । भीमे च जयिनि प्रीताः पुष्पाणि ववृषुः सुराः ॥९३५॥ कौरव्यग्रामणी: पीडानिमीलितविलोचनः । क्षेपं क्षेपं गदां शून्यं क्रमान्निःसहतामगात् ॥९३६॥ अथाभ्येत्य मुहीमः पविसब्रह्मचारिणा । पादेन दलयाञ्चक्रे कोटीरं कुरुभूपतेः ॥९३७॥ बलभद्रस्तदालोक्य पदा मुकुटपेषणम् । रोषोन्मेषारुणीभूतसर्वाङ्गद्युतिरभ्यधात् ॥९३८॥ 20 25 १. कालाग्निसदृशोऽपि । २. अम्बकं-नेत्रम् । ३. वज्रसदृशेन ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy