________________
[५९१
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
कदाचिच्चेलतुः प्रेङत् करावभ्यासपाटवात् । तावन्योऽन्यगदाघातं गदयैव ररक्षतुः ॥९१३॥ तदीयगदयो दैरन्योन्यास्फालनोद्भवैः । शङ्कन्ते स्म जगत्कोशस्फोटमाकालिकं जनाः ॥९१४॥ तयोरित्थमतिक्रोधादुद्धतं युध्यमानयोः । जयश्रीः सुचिरं तस्थावात्तया वरमालया ॥९१५॥ कौरवोऽथ चिराद् दृष्टिं वञ्चयित्वा कथञ्चन । निबिडं ताडयामास मौलिदेशे मरुत्सुतम् ॥९१६।। तत्प्रहारव्यथाभारनिर्भरभ्रमितेक्षणः । मारुतिः क्षोणिमद्राक्षीभ्रंमदद्रिवनद्रुमाम् ॥९१७॥ सत्त्वोत्कर्षादथात्मानं संस्थाप्य स कथञ्चन । क्रोधप्रगुणितप्राणः प्रजहे हृदि कौरवम् ॥९१८॥ तेन दुःखासिकामात्रमनुभूय सुयोधनः । निहन्ति स्म पुनर्मूध् िकोपाटोपाद् वृकोदरम् ॥९१९॥ तत्पीडाभिरभूदन्धंभविष्णुनयनद्वयः । निकामं निःसहीभूतसर्वाङ्गं पवनाङ्गजः ॥९२०॥ तथाभूतं तमालोक्य मलीमसमुखद्युतिः । ससंभ्रममभाषिष्ट किरीटी कैटभद्विषम् ॥९२१॥ हन्त गोविन्द ! गोविन्द ! किमस्माकमुपस्थितम् ? । उत्तीर्य पाथसां नाथमिदं गोष्पदमज्जनम् ॥९२२॥ जिते भीष्मे जिते द्रोणे सूदिते सूतनन्दने । शल्ये निर्मूलिते सिन्धुराजादिषु हतेषु च ॥९२३॥ पश्यतामेव नः सोऽयं सर्वेषामपि जीवितम् । धृष्टेन धार्तराष्ट्रेण मारुतिर्यन्निहन्यते ॥९२४॥ युग्मम् । इत्यर्जुनोक्तमाकर्ण्य कंसविध्वंसनोऽवदत् । पार्थ ! भीमेन कौरव्यः सत्यमेवाऽस्ति दुर्जयः ॥९२५॥
25
१. कदाचिच्य लघुप्रेङ्ख प्रतिद्वयपाठः ।