SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ [५८७ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] . एधोभिरिव तैरेतैः सायकैः स्वैरपातिभिः । दिदीपे सहदेवस्य नितरामूजितानलः ॥८६१।। माद्रेयस्तस्य नाराचैः काण्डश्रेणीरखण्डयत् । । अम्भोधर इवाम्भोधिर्ध्वाला देवहविर्भुजः ॥८६२॥ समं दोःस्तम्भसंरम्भैः साकं कपटपाटवैः । क्षयमीयुः क्षणाद्वाणा गान्धाराणामधीशितुः ॥८६३॥ दीव्यन्तं समरद्यूते ततः प्राणैः पणीकृतैः । मानेयोऽक्षैरिव क्षिप्रं क्षुरप्रैर्जयति स्म तम् ॥८६४॥ क्षुण्णेऽथ शकुनौ साक्षाच्चेतसीव कुरुप्रभुः । उच्छ्रसन्नपि भस्त्रेव चैतन्यविकलोऽभवत् ॥८६५॥ वीक्ष्यानीकमथात्मीयमेयिवद्विशरारुताम् । गान्धारेयो गतस्थामा जगामाकुलतां ततः ॥८६६॥ अथ सैन्यरथोद्भूतैः सोऽन्धकारपटोपमैः । तिरोहितवपुः पांशुपूरैः स्वैरमपासरत् ॥८६७।। न नाम शुशुभे शेषद्वित्रशौण्डीरमौक्तिकम् । तदा मौक्तिकदामेव तदनीकमनायकम् ॥८६८॥ कृपश्च कृतवर्मा च द्रोणभूश्च त्रयोऽप्यमी । धार्तराष्ट्रमपश्यन्तः कोका इव दिवाकरम् ॥८६९॥ बिभ्रतः कान्दिशीकत्वं विच्छायवदनश्रियः । कामं गवेषयामासुर्विषण्णास्तमितस्ततः ॥८७०॥ युग्मम् । भ्राम्यन्तो ददृशुस्तेऽथ गान्धारेयपदावलीम् । सरो व्याससरो नाम ययुस्तदनुसारतः ॥८७१॥ अम्भः संस्तभ्य संविष्टं तत्र निश्चित्य कौरवम् । भर्तृभक्त्या क्षणं तस्थुस्तस्य ते सरसस्तटे ॥८७२॥ अथावलोक्य धूलीभिस्तैः कदम्बितमम्बरम् । कौरवानुपदी पार्थबलराशिरशक्यत ॥८७३॥ १. दावानलस्य । २. प्राप्तम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy