________________
[५८१
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
इत्यातहृदयान्बन्धुहत्यया पाण्डुनन्दनान् । सभ्रूभङ्गमभाषिष्ट विस्पष्टं विष्टरश्रवाः ॥७८३॥ वृथा ताम्यथ किं नाम कार्येऽमुष्मिन्नकल्मषे ? । जिघांसन्तं जिधांसीयादिति धर्मो हि दोष्मताम् ॥७८४॥ किं च यातेन दूत्याय तदानीं हास्तिने मया । किञ्चिदावेद्य वृत्तान्तमेवं कर्णोऽभ्यधीयत ॥७८५॥ ततः कर्ण ! तवेदानीं युक्ता सोदर्यसङ्गतिः । सेवितुं न तु युज्यन्ते कुरवस्तद्विरोधिनः ॥७८६॥ सोऽप्यूचे तं हरे ! नाहं मोक्तुमर्हामि कौरवम् । कर्णः कर्ण इति ख्यातिं येन नीतोऽस्मि सर्वतः ॥७८७॥ पुरुषेषु न रेखाऽपि साधुभिस्तस्य दीयते । यः स्निग्धमदवीयस्यां मित्रमापदि मुञ्चति ॥७८८॥ पश्य मित्रं मरीचीनामुपरागे विमुञ्चताम् । गीयते खलु विद्वद्भिः पुंस्त्वमेव न केवलम् ॥७८९॥ कौरव्यस्य ततः कार्ये त्याज्याः खलु मयाऽसवः । किं पुनः फाल्गुनादन्यं हनिष्यामि न बन्धुषु ॥७९०॥ इति वैरायमाणं तं विनिश्चित्यार्जुने मया । वक्तुमिष्टोऽपि युष्मभ्यं नोदन्तोऽयमकथ्यत ॥७९१॥ ज्ञातेऽस्मिन्नर्जुनो बन्धुस्नेहविक्लवतां गतः । यदि कर्णेन हन्येत तद्भवेत् किं हि मङ्गलम् ? ॥७९२॥ इत्याकर्ण्य गिरं शाङ्गपाणेर्बाष्पायितेक्षणाः । पाण्डवाश्चक्रिरे सर्वं राधेयस्यौर्ध्वदेहिकम् ॥७९३॥ यावत्तिष्ठन्ति ते स्तोकशान्तशोकभरास्तदा । तावत्प्रौढप्रभाजालक्षालितक्षणदामलान् ॥७९४॥ आतपत्रायितस्फारस्फटामण्डलमण्डितान् । काश्चिदालोकयाञ्चक्रुदिव्यमूर्तिधरान्पुरः ॥७९५॥ युग्मम् ।
१. समीपस्थायाम् ।