________________
५८०]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पाण्डवाः पुनरत्यन्तमुद्दयोतिवदनेन्दवः । स्कन्धावारं ययुः स्वैरं सञ्चारचतुराज्रयः ॥७७०॥ कुण्डलाभ्यां तथैताभ्यामभ्यर्च्य चरणद्वयीम् । ते राधेयवधप्रीताः प्रणेमुस्तत्र मातरम् ॥७७१॥ ते नि:संदेहमात्मीये प्रत्यभिज्ञाय कुण्डले । अकस्मान्मुहुरुष्णोष्णाः सा ववर्षाश्रुविपुषः ॥७७२॥ तामवादीदजातारि: कष्टमानन्दपर्वणि । मातः केयमकाण्डेऽपि शोकसङ्कलता तव ? ॥७७३॥ नन्वद्य फाल्गुनागस्त्यग्रस्ते कर्णमहार्णवे । जयद्वीपमभूदेवि ! त्वत्सुतैरीषदासदम् ॥७७४॥ तत्त्वयाऽऽकस्मिकीभिः किं कष्टाभिर्बाष्पवृष्टिभिः । मुखाम्भोजविकाशश्रीरास्माकीयं विलुप्यते ? ॥७७५॥ अथोवाच सुतान् कुन्ती मन्युना गद्गदाक्षरम् । वत्साः किं नाम वोऽद्याहं मन्दभाग्या निवेदये ? ॥७७६॥ कर्णो हि पाण्डुदेवस्य तेजसामाद्यकन्दलः । सोदरो भवतां बन्धुः सिन्धुरौजित्यवारिणः ॥७७७॥ किन्तु हेतोः कुतोऽप्याशु जातमात्रोऽप्यसौ मया । कुण्डलाभ्यां किलैताभ्यां सनाथीकृत्य तत्यजे ॥७७८॥ हेतुर्मातः स को नाम ? सुतं येनैनमत्यजः । इति विस्मेरचेतोभिः पाण्डुजन्मभिरीरिते ॥७७९।। स्त्रीस्वभावभुवा कुन्त्यां हिया तूष्णीकताजुषि । वृत्तान्तमखिलं कर्णे कथयामास केशवः ॥७८०॥ युग्मम् । बन्धूच्छेदस्मरत्खेदाः पाण्डवाः पुनरभ्यधुः ।
आः कृष्ण ! न त्वमप्येवमियत्कालमचीकथः ॥७८१॥ कारिताः किं वयं हन्त भ्रातृहत्यामिमां त्वया ? । क्व नाम पातकस्यास्य विशुद्धिर्भविताऽद्य नः ? ॥७८२॥
15.
20
25
१. सौकर्येण प्राप्तम् । २. शोकेन ।