SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७८] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ श्यामलिम्नाऽधिवक्वेन्दु वैलक्ष्येणाधिमानसम् । मन्दिम्ना चाधिदोर्दण्डं कर्णस्याक्रियतास्पदम् ॥७४४॥ सोऽथ स्वयमवातारिरुद्दिधीपुर्वरूथिनम् । उच्चैरुत्साहमारोहत्तदानीमर्जुनः पुनः ॥७४५॥ ततः पल्लवितप्राणं बाणधोरणिवर्षिणम् । कर्णोऽभ्यधत्त बीभत्सुमीषदैन्यकिरा गिरा ॥७४६।। क्षत्रियक्षिप्तमक्षत्रमिदमर्जुन ! मा कृथाः । न खल्वयुध्यमानेषु प्रहारः सत्यशालिनाम् ॥७४७॥ क्षात्रं धर्ममिमं वीर ! यदि त्वमपि लुम्पसि । तदानीमपरित्राणः कुत्रायमवतिष्ठताम् ? ॥७४८॥ तन्मुहूर्तं प्रतीक्षस्व मा मुचः सुतरां शरान् । उद्धरामि धरामग्नमहं यावदिमं रथम् ॥७४९।। तमेवं कृपणालापमलपन् मद्रभूपतिः । राधेय ! न भवान्सूतकुलं हियमलम्भयत् ॥७५०॥ क्षत्रियः क इव प्राणसंदेहेऽपि महीयसि । वचस्त्वमिव शत्रूणां पुरो दीनमुदीरयेत् ॥५१॥ दुर्धीदुर्योधनो नूनं येन भीरुशिरोमणौ । कृता गोमायुदेशीये सिंहसम्भावना त्वयि ॥७५२॥ न कौरव्यः स ते मित्रं मन्ये मानैकमन्दिरम् । वदस्येवं गिरं दीनां यत्पुरः परिपन्थिनः ॥७५३॥ इति शल्यगिरा शल्यतुल्यया गलितौजसम् । स्मितधौताधरोद्देशः केशवः कर्णमब्रवीत् ॥७५४॥ राधेय ! धर्मसर्वस्वं त्वां विना बत वेत्ति कः? । शङ्के स्मृतिरहस्यानि स्फायन्ते त्वयि सम्प्रति ॥७५५।। अभिमन्युवधे किन्तु विस्मृतान्येव तानि ते ।। सर्वैः सम्भूय युष्माभिर्यदेकः स तदा हतः ॥७५६।। १. मन्दत्वेन । २. क्षत्रियेणानङ्गीकृतम् । ३. सत्व० प्रत्यन्तरे० । ४. मृगसदृशे । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy