________________
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
राधेयस्य ततश्चेतः प्रविष्ट इव विष्टपम् । उज्झामास तमस्तोमः पाण्डवांश्च भयोदयः ॥७३१ ॥ साक्षादिव जये तस्मिन्नस्त्रे विलयमीयुषि । घटोत्कचवधादाप्तवत्यां शक्तौ च रिक्तताम् ॥७३२|| निश्चिकायात्मनः कायव्ययं कर्णः कपिध्वजात् । राज्यभङ्गं कुरूणां च पाण्डवानां च सम्पदम् ॥७३३|| (युग्मम्) अथ सर्वाभिसारेण शराणामनणूर्जितः । मृत्युमेवोररीकृत्य स योद्धुमुपचक्रमे ॥७३४ ||
एकाश्रयमसंदेहजयलक्ष्मीनिरीक्षितः ।
बभूव भीमः समरस्ततः कर्णकिरीटिनोः ॥७३५॥ व्योम्नि वैमानिकैर्दिक्षु दिग्गजैर्भूवि भूचरैः । उच्छलत्तच्छरव्रातभीत्या दूरेण दुद्रुवे ॥७३६ ॥ कल्पान्तचलितोदन्वन्नीरनिर्घोषभीषणः । भयसम्भ्रान्तयोरासीद्वाहिन्योस्तुमुलो महान् ॥७३७॥ वाह्लीकैः क्वचिदास्फाल्य कोलाहलपलायितैः । बभञ्जिरे रथाः साकं रथिकानां मनोरथैः ॥ ७३८॥ नीचैर्मार्गद्रुशाखाभिः पर्यस्तकुथकैतनाः । इभाः प्रणेशुर्झम्पाभिर्नश्यदाधोरणा रणात् ॥७३९ ॥ कर्ण - फाल्गुनयोरवान्पुनर्मद्रेश केशवौ । धारयाञ्चक्रतुः सम्यक्सारथ्यकलया बलात् ॥७४०॥ सर्वस्मिन्नप्यनीकेऽथ विद्रुते वीरकुञ्जरौ । रेस्तौरणासक्तावटव्यामिव कुञ्जरौ ||७४१ || अथैवं रणसंरम्भे कर्णस्याचक्रनाभितः । मङ्क्षु धर्म इवानीतौ निर्ममज्ज रथः क्षितौ ॥७४२॥ कलाकल्पेन शल्येन प्रेरिता अपि वाजिनः । नेशते स्म तमुद्धर्तुं विवेकमिव दुर्धियः ॥७४३॥
१. वाह्लीकदेशजैरश्वैः । २. चक्रनाभिपर्यन्तम् ।
[ ५७७
5
10
151
20
25