SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ 10 ५७६] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ राधेयस्याथ तां बाणधोरणी धूमरीमिव । शराः करा इवोष्णांशोर्मुष्णन्ति स्म किरीटिनः ॥७१८॥ फाल्गुने वल्गति स्वैरं पत्रिपत्रौघशालिनि । बभूव च्छिदुरच्छायः कामं कर्णमहीरुहः ॥७१९॥ मन्दीभूतेऽथ कर्णस्य शरशैशिरमारुते । बाणदक्षिणवाते च स्फूर्जत्यधिकमार्जुने ॥७२०॥ कौरवाः परितः कुन्दा इवासुमनसोऽभवन् । विकाशं चागमन्नुच्चैश्चम्पका इव पाण्डवाः ॥७२१॥ युग्मम् । अन्धीभूष्णुरथो जिष्णुमार्गणैरङ्गभूपतिः । अत्रस्नुरस्त्रमाहेयं महीयः समजूहवत् ॥७२२॥ प्यधीयन्त तडिद्दण्डमण्डिताब्दविडम्बिभिः । विषज्वालाकरालास्यैर्दन्दशूकैर्दिशस्ततः ॥७२३॥ बभुळलच्छलात्सप्तसप्तिसौप्तिकहेतवे । सम्भूयेवागताः सर्वशर्वरीतिमिरोर्मयः ॥७२४॥ युग्मम् । भुजङ्गजलदैः सद्यः पीते तपनतेजसि । तत्फणामणयो ज्योतिरिङ्गणा इव रेजिरे ॥७२५॥ सर्पसन्तमसे तस्मिन्द्यावाभूमिपिधायिनि । सुभद्राभर्तुरास्येन्दुः शुशुभेऽभिनवोदयः ॥७२६॥ काद्रवेयैरुपद्रोतुमनोभिरभितोऽर्जुनम् । सम्भ्रमादभ्रमि स्वैरं साक्षादापटैरिव ॥७२७॥ तान्मुरारातिरालोक्य त्रैलोक्यैकभयङ्करान् । गाण्डीवधन्विनो बन्धशङ्कातङ्काकुलोऽभवत् ॥७२८।। अथाहेयास्त्रसंहारहेतवे तार्क्ष्यदैवतम् ।। कार्मुकेसायकं सद्यः संदधे च धनंजयः ॥७२९॥ जग्मुश्च क्वापि निर्नाम ते भुजङ्गमपुङ्गवाः । दुर्नीतिहतवृत्तीनामसाधूनामिवोदयाः ॥७३०॥ १. सार्पम् । २. सूर्येण सह रात्रियुद्धनिमित्तम् । ३. खद्योताः । ४. खद्योताः । ५. आपद एव भटास्तेः । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy