SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५७० ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ क्व रे पार्थ ? क्व रे पार्थ ? इति जल्पन्तमुच्चकैः । सधैर्यमथ राधेयमभ्यधान्मद्रभूपतिः ॥६३९॥ मूर्ध्नि कर्ण ! न कर्णौ ते हृदये न विवेकिता । नान्तरात्मनि चैतन्यमिति मे मन्यते मतिः ॥६४०॥ यत्प्रतिज्ञामकार्षीस्त्वमात्मनीनेतरामिमाम् । यथा दोर्विक्रमैर्माद्यन्नद्य वध्यो मयाऽर्जुनः ||६४१॥ किं नाम सोऽपि कोऽप्यस्ति ? येन जीयते सोऽर्जुनः । नरकण्ठीरवे कुण्ठीभवन्ति भुवनान्यपि ॥ ६४२ ॥ यत्त्वमप्याचरः क्रान्तः शरैरेतस्य गोग्रहे । अनीषत्करमत्यन्तं तद्वक्तुमपि मादृशैः ॥६४३॥ त्वां विधूय युधि क्रोधाद् गान्धारेयं बबन्ध यः । सोऽप्यस्मिन् विनयाद्धत्ते गन्धर्वेन्द्रोऽतिखर्वताम् ॥६४४॥ तमद्याह्वयमानस्त्वमर्जुनं किं न लज्जसे ? | विपर्यस्यन्ति ग्नेदीयोमृत्यूनां मतयोऽथवा ॥६४५॥ अथ प्रादुर्भवत्कोपकम्पश्चम्पेश्वरोऽब्रवीत् । मद्राणां म्लेच्छवृत्तीनामनुरूपमिदं वचः ॥६४६॥ परमेतर्हि ते किञ्चिदन्तरं दर्शयिष्यते । चेत्कुण्डलितकोदण्डः पुरो वीक्षिष्यतेऽर्जुनः ||६४७॥ शल्येनाभिदधे शीर्षच्छेदादर्वाक् किरीटिनम् । सम्यङ् न ज्ञास्यसे कर्ण ! पश्य पश्य पुरस्ततः ॥ ६४८|| पार्थः सोऽयं रथारूढः कृष्णसूतः कपिध्वजः । अभ्येति निघ्नन्सैन्यानां ध्यानवह्निरिवैनसाम् ॥६४९॥ इत्याकर्ण्य गिरं कर्णः कीर्तितां मद्रभूभुजा । क्रोधधूमायितस्वान्तः क्षणं तूष्णीकतामधात् ॥ ६५०॥ शरैर्वर्षन्दधावेऽथ राधेयोऽनु धनंजयम् । विरोकैरनु भूर्लोकं कल्पान्तद्युतिमानिव ॥६५१ ॥ १. आत्मनोऽहिताम् । २. अतिनम्रताम् । ३. समीपस्थमृत्युनाम् । ४. किरणैः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy