SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ [५६९ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] तत्त्वमिच्छसि यद्यस्मिन्संपराये जयं मम । तदूरीकुरु कर्णस्य सारथ्यं समराजिरे ॥६२६॥ इति दाक्षिण्यमत्यन्तमानीतः कुरुभूभुजा । स्मृतपूर्वी च माद्रेयौ प्रत्यूरीकृतमात्मनः ॥६२७॥ शल्योऽब्रवीत्करिष्येऽहमेतत्तर्हि भवद्वचः । किन्तु कर्णेन सोढव्यः स्वैरजल्पो रणे मम ॥६२८॥ युग्मम् । गिराऽथ कुरुनाथस्य वचस्तन्मद्रभूपतेः । अङ्गीचक्रेऽङ्गभूपालः कालज्ञा हि मनीषिणः ॥६२९॥ प्रतिजज्ञे च चेत्प्रातः काश्यपीमकपिध्वजाम् ।। न करोमि तदा नूनं हव्यवाहं विशाम्यहम् ॥६३०॥ अथोदगात्प्रगे भानुस्तिमिरानीकमन्तयन् । तत्प्रहारवणोद्गीर्णैः शोणितैरिव शोणितः ॥६३१॥ परो विधाय राधेयं ततस्ते शल्यसारथिम् । आययुः सज्जितक्रूरवारणं कौरवा रणम् ॥६३२॥ राजहंसकृतोत्तंसा पुण्डरीकौघमण्डिता । समित्सीमां समागच्छत् पाण्डवीयाऽपि वाहिनी ॥६३३॥ गम्भीरवीरसंरम्भसम्भ्रान्तभुवनत्रयः । वल्गति स्म ततो बाणधोरणीभीषणो रणः ॥६३४॥ निष्क्रामन्ति स्म केषाञ्चिदिषवश्च शरासनात् । प्राणाश्च प्रतिवीराणां स्पर्धयेव शरीरतः ॥६३५॥ वितेरुः फलमस्मभ्यं कर्मण्यविहितेऽप्यमी । इति प्रीता इवान्येषां शराः किं किं न तेनिरे ॥६३६॥ दन्तान्दन्तावलेन्द्राणामसिना कश्चिदच्छिनत् । असावपि ततश्छिन्ने निन्ये तानेव शस्त्रताम् ॥६३७॥ वीरप्रहारमूर्छालचेतसः पतिता अपि । हुंचक्रिरे चिरं शून्यक्षिप्तकौक्षेयकाः परे ॥६३८॥ १. नकुलसहदेवौ । २. शराग्रभागम् । ३. खड्ने । ४. शून्यप्रदेशे क्षिप्तखड्गाः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy