SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 10 ५६८] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ दुःशासनवधाधानसुभगम्भावुकागमम् ।। नेत्राभ्यां द्रौपदी भीमं दुरादायान्तमापपौ ॥६१३॥ भीमोऽप्यभ्येत्य पाञ्चालीमालिङ्ग्य कबरी स्पृशन् । दुःशासनवधोदन्तमानन्देन न्यवेदयत् ॥६१४॥ साऽपि विज्ञातनिःशेषवृत्तान्ताऽपि परिच्छदात् । शृण्वती वल्लभाद्भूयः कामप्यागाद्दशां पराम् ॥६१५॥ राधेयोऽपि विभावर्यां स्कन्धावारमुपेयिवान् । धार्तराष्ट्रमभाषिष्ट कनिष्ठवधदुःखितम् ॥६१६।। राजन्नर्जुन एवास्ति पाण्डवीये बले शिरः । छिन्ने तस्मिन्नशेषं तल्लप्स्यते शवकल्पताम् ॥६१७॥ प्रथमैवाहुतिः सोऽपि मामके बाणपावके । किं पुनः ? समरे सूतमुखमालोकते जयः ॥६१८॥ पार्थस्य सर्वकर्मीणः स सारथिरुदारधीः । वर्तते मे पुनः कश्चित्सारथिर्न तथाविधः ॥६१९॥ तन्मे मातलिना तुल्यं शल्यमर्पय सारथिम् ।। हत्वाऽर्जुनं यथा बन्धुशोकमुन्मूलयामि ते ॥६२०॥ ततो मरेन्द्रमाहूय गौरवात् कौरवाधिपः । सारथ्यमर्थयाञ्चक्रे चम्पेशस्य कृताञ्जलिः ॥६२१॥ शल्योऽवोचत् किमौचित्यवन्ध्यमित्यभिधीयते ? । क्व राजन्यकुलीनोऽहं सूतसूतिरसौ क्व च ? ॥६२२॥ किं नाम न त्रपे काममस्याहं सारथीभवन् ? । काकोले कलहंसस्य दास्यं हास्यं न किं भवेत् ? ॥६२३॥ कौरवेन्द्रस्ततोऽवादीदिदं मद्रेश मा वद । आतुरे हि सुद्धाचामौचिती न विचार्यते ॥६२४॥ धीराः कार्ये हि मित्राणामकृत्यमपि कुर्वते । मित्रकार्यं विचारश्च नैकत्र खलु खेलतः ॥६२५॥ 15 25 १. सारथिपुत्रः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy