SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] [५६७ कृष्णाकेशांशुकाकृष्टिस्मृतिधर्मर्तुनर्तनैः । कामं कल्लोलयाञ्चक्रे भीमक्रोधमहाम्बुधिः ॥६००॥ ऊजितेन समं भीमः शरैरुन्मथ्य सारथिम् । दौःशासनमथाभाङ्क्षीद्रथं सह मनोरथैः ॥६०१॥ उत्तीर्याथ रथाद् भीमः प्रेषितासिं रुषा पुरः । दुःशासनं समाक्रम्य भुजाभ्यां भूमिमानयत् ॥६०२॥ अवोचत च रे कर्मचण्डाल ! मलिनाशय ! । दुरात्मन् कुरुभूपालगोत्रहालाहलद्रुमः ! ॥६०३॥ अधर्मैकमय ! क्षत्रजातिपूर्णेन्दुलाञ्छन ! । अकीर्तिकन्दलीमूलकन्द ! दुर्नयशेवधे ! ॥६०४॥ द्रौपदीप्रसभाकृष्टिपांसुवृष्टिरजस्वलः ! । स त्वदीयो भुजः कोऽयं ननु सम्प्रति दर्शय ॥६०५॥ त्रिभिर्विशेषकम् । इत्युदीर्य भुजेनाद्यं वैरप्रसवशाखिनम् । दौःशासनं भुजं भीमः समूलमुदमूलयत् ॥६०६।। तन्मूलोत्थैरसृबिन्दुसंदोहैरङ्गसङ्गिभिः । निर्ववौ नितरां भीमो जितलोहितचन्दनैः ॥६०७।। रोषभीममुखे भीमे दुःशासनमरुन्तुदम् । खण्डीकुर्वति दत्तारं प्रतिकारमिव द्विपे ॥६०८॥ सर्वस्मिन् विद्रुते त्रासात्सैन्ये तत्पांशुवाससा । भियेव द्यौरपि छन्नदिनेशवदनाऽभवत् ॥६०९॥ युग्मम् । दिदीपे नितरां भीमस्तीर्णसङ्गरसागरः । क्लेशाकूपारपारीण इव योगीन्द्रपुङ्गवः ॥६१०॥ शङ्के नाकिविमानानां मिलितानां कुतूहलात् । प्रेरितः पौनरुक्त्येन ययौ व्योमान्तमंशुमान् ॥६११॥ निषिद्धे रणसंरम्भे ततोऽधिकृतपूरुषैः । वरूथिन्यावुभे स्वं स्वं सन्निवेशमगच्छताम् ॥६१२॥ 15 20 १. पराक्रमेण ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy