SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ [५६५ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] तथा स्नेहमयश्चक्रेऽभिषेकः कुरुभूभुजा । शौण्डीरिमानलस्तस्य यथाऽभ्यधिकमज्वलत् ॥५७४॥ तेन वीरकिरीटेन सङ्गराय गमिष्यता । प्रवर्त्यन्ते स्म दानानि याचकेभ्यो यथारुचि ॥५७५॥ कामं प्रवर्षत्येतस्मिञ्जीमूत इव नूतने । आश्चर्यमभवन्नथितडागाः कमलाकुलाः ॥५७६॥ शौण्डीरकुञ्जरे तस्मिंस्तदानीं दानशालिनि । मदं सपदि के नाम नात्यजन् परवारणाः ? ॥५७७॥ बन्दिनश्च द्विजेन्द्राश्च वर्णप्राधान्यशालिनः । तस्मिन्दातरि यान्ति स्म द्राक्स्ववर्णप्रधानताम् ॥५७८॥ माहेन्द्रीव महासेनमेनमग्रे विधाय सा । कौरवीया चमूः प्रातः सङ्गरोत्सङ्गमागमत् ॥५७९॥ सरित्पूर इवाम्भोधौ कर्णवैतालिकध्वनौ । निलीनात्मा रणातोद्यनादः सन्नप्यसन्नभूत् ॥५८०॥ वीरोत्तंसं पुरोधाय तमेव द्रुपदात्मजम् । पाण्डवा अपि सानीकाः समीकमुपतस्थिरे ॥५८१॥ युद्धान्तरं दिगन्तेषु सूत्रयन्ति प्रतिस्वनैः । रणतूर्याण्यताड्यन्त पताकिन्योर्द्वयोरपि ॥५८२॥ पूर्वापरमरुन्नुन्नास्तरङ्गा इव नीरधेः । उभयेऽपि भटाः स्वैरं मिलन्ति स्म परम्परम् ॥५८३॥ भान्ति स्म खड्गाः केषाञ्चिद्विरोधिरुधिराङ्किताः । लाञ्छिता इव वीरश्रीपादालक्तकबिन्दुभिः ॥५८४॥ कस्मिंश्चित्सुमनोवृष्टिरप्सरोभिरमुच्यत । पपात पुनरन्यस्मिन्समीरणसमीरिता ॥५८५॥ दन्तिदन्तप्रहारोत्थस्फुलिङ्गपटलच्छलात् । । द्विट्प्रतापं भृशं पीतं केषाञ्चिदसयोऽमुचन् ॥५८६।। १. पराक्रमाग्निः । २. कार्तिकस्वामिनम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy