________________
:
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
अथ पास्यन्निवाकाशं भ्रंशयिष्यन्निवामरान् । क्षोदयिष्यन्निव क्षोणि चालयिष्यन्निवाचलान् ॥५२२॥ शोषयिष्यन्निवाम्भोधीन् गिलिष्यन्निव भास्करान् । पेक्ष्यन्निव वलक्षांशुं निग्रहिष्यन्निव ग्रहान् ॥५२३॥ लम्भयिष्यन्निवाशेषमपि गण्डूषतां रुषा । पाण्डवानामनीकं तज्जगाद गुरुनन्दनः || ५२४ ॥ त्रिभिर्विशेषकम् ।
ये चक्रुः कारयाञ्चक्रुर्ये च ये चान्वमन्यत । ये चालुलोकिरे ये चाश्रौषुर्मृत्युं पितुर्मम ॥५२५॥ सर्वान्पश्यत तान्हुत्वा क्रोधधूमध्वजे मम । पूर्णाहुतिममी बाणा: प्रथयन्ति पृथासुतैः ॥५२६॥ इत्याक्षिप्य भटान्सर्वान्दान्तदिग्दन्तिमण्डलैः । द्रोणाय निस्तनोति स्म शरैरेकार्णवं नभः ॥५२७॥ सायकान्संदधत्येव तस्मिन्वीरेऽधिकार्मुकम् । त्रस्तैरिव प्रहारेभ्यः प्राणैर्मुमुचिरे द्विषः ॥ ५२८ ॥ कोऽभूत्सोढुमलम्भूष्णुराश्वत्थामं शरोत्करम् । शैला अपि न सोढारः कल्पान्तजलदाशनिम् ॥५२९॥ तत्कार्मुकविनिर्मुक्ताः शराः सर्वारिभूभुजाम् । हृदयेषु विशन्ति स्म सत्त्वसारमिवेक्षितुम् ॥५३०॥ शोषयन्सैन्यवारीणि नैदाघ इव भानुमान् । रुरुधेऽम्भोधरेणेव स कपीश्वरकेतुना ॥५३१॥ छिद्रितध्वजमुत्कृत्तवरूथं छिन्नसारथि । सम्भ्रान्ततुरगं बाणैः क्षणं युद्धमभूत्तयोः ॥५३२॥ शराः पार्थस्य निःस्थामामाश्वत्थामामिषुक्रियाम् । क्रमाच्चक्रुरपाचीनां हिमानीमिव वायवः ॥५३३॥ क्रोधेनाथ ज्वलन्सद्यो दत्ताहुतिरिवानलः । नारायणीयमातेने द्रोणभूरस्त्रमुद्भटम् ॥५३४॥
[ ५६१
१. 'पां पाने' इति हे०धा० (२) धातुः । २. चन्द्रम् । ३. वरुथो - रथः । ४. दक्षिणदिशासंबन्धिनीम् ।
5
10
151
20
25