________________
5
10
15
20
25
५६२]
[ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥
उन्मिमीलाथ तन्मीलत्सर्वशौण्डीरडम्बरम् । अम्बरं च दिगन्तांश्च माद्यदग्नीनसूत्रयत् ॥५३५॥ कालाग्निरुद्रः पातालात् किं भित्त्वा भुवमुद्ययौ ? । किमुच्छोष्योदगात् सिन्धुजलानि वडवानलः ? ॥ ५३६॥ माद्यत्यद्यैव किं वायं स कल्पान्तहुताशन: ? । जज्ञिरेऽर्ककराः किं वा ज्वालास्थूलंभविष्णवः ? ॥५३७॥ समं ज्वलितुमारेभे सर्वैर्वा भुवनाग्निभिः ? | इत्याद्यनेकशस्तर्काः सैनिकैस्तेनिरे तदा ॥ ५३८ ॥ त्रिभिर्विशेषकम् । तैस्तैर्वालावृत्तिव्रातैर्ग्रामीणमिव धैनुकम् । तस्मिन्नस्त्रे पृथासूनु - सैन्यमाविवरीषति ॥५३९॥ लोकानां नश्यतां पादपांशुभिः पिहितोंऽशुमान् । बंहीयोभिस्तदुद्भूतैर्ध्यामो धूमैरिवाभवत् ॥५४०॥ युग्मम् । ऊर्ध्वबाहुस्ततोऽवादीत्सैन्यानुच्चैस्तरां हरिः । उज्झतोज्झत शस्त्राणि रथान्मुञ्चत मुञ्चत ॥ ५४१॥ भक्तिनम्रीभवन्मौलि नमस्यत नमस्यत । अस्त्रमेतद्यथा विश्वघस्मरं शाम्यति क्षणात् ॥५४२॥ युग्मम् । इति शौरैर्गिरा वेगादायुधानि धनुर्धराः । सङ्गराभिनिवेशेन समं सर्वेऽपि तत्यजुः ॥५४३॥ किं चापत्रपया सार्धमुज्झांचक्रुर्वरूथिनः । नमन्ति स्म च तन्मौलिचूलचुम्बितभूतलाः ॥५४४॥ अहङ्कारकुलागारमात्मजो मरुतः पुनः । शस्त्रत्यागादि तत्किञ्चिन्न चकार कथञ्चन ॥ ५४५॥ जगाद च जगत्सर्वं यस्यैतत्तृणमेव मे । सूर्याचन्द्रमसावेतौ यस्य ग्रासार्धमेव मे ॥५४६॥ अगाधोऽप्ययमम्भोधिर्यस्य मे गोष्पदायते । कुलभूमीभृतोऽप्येते वामलूरन्ति यस्य मे ॥५४७॥
१. अस्त्रम् । २. सुगन्धि तृणम् । ३. विश्वनाशकम् । ४. वल्मिकवदाचरन्ति ।