________________
5
10
151
20
25
५६०]
[ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥
ब्रह्मन् ! मुञ्च रुषं स्नाहि शमामृतसरस्वति । अनैदंकालिकं रौद्रध्यानमेतत्परित्यज ॥५०९॥ धर्म्यं तद्ध्यानमाधेहि धीमन् ! साम्प्रतकालिकम् । आयुषः क्षय एवायमद्य मृत्युस्तवागमत् ॥५१०॥ यत्पुरस्कृत्य निःशेषमवतारणमङ्गलम् । तवाध्वानं विलोकन्ते ब्रह्मलोकसुखश्रियः ॥ ५११॥ इत्याकर्ण्य भवारण्यभीषणत्वं विभावयन् । न्यक्कुर्वन् रचितातङ्कान् रोषादीन्परिमोषिणः ॥५१२॥ स्मरन्पञ्चनमस्कारमन्त्रं दुरितघातिनम् । विश्वैकबान्धवानर्हन्मुखाञ्शरणमाश्रितः ॥५१३॥ परमात्मलयारामप्रवेशपरिनिर्वृतः । ब्रह्मद्वारविमुक्तात्मा ब्रह्मलोकं गुरुर्ययौ ॥ ५१४॥ त्रिभिर्विशेषकम् । केशेष्वाकृष्य नालेषु शालिस्तम्बमिव क्षणात् । कृन्तति स्म कृपाणेन धृष्टद्युम्नोऽथ तच्छिरः ॥ ५१५॥
हतेऽस्मिन्कौरवानीकलोकाक्रन्दप्रतिस्वनैः ।
चक्रन्दुरिव कोदण्डविद्या अपि तिरोहिताः ॥ ५१६॥ मध्याह्नेऽपि तदाशोकतिमिरोर्मिकरम्बिते । कौरवीयबले बाढं निशीथ इव पप्रथे ॥५१७॥ व्योमेव पुंष्पदन्ताभ्यां लोचनाभ्यामिवाननम् । विमुक्तं न व्यभाद् भीष्मद्रोणाभ्यां कौरवं बलम् ॥५१८॥ मध्यंदिनेऽपि कौन्तेय पताकिन्यास्तु सर्वतः । नितान्तमुत्तरङ्गोऽभूदानन्दक्षीरनीरधिः ॥ ५१९ ॥ द्रोणे शल्य इवोत्खाते पाण्डवानां स विग्रहः । अरातिश्रियमादातुमत्यन्तप्रगुणोऽभवत् ॥५२०॥ निर्मन्थन्नथ पार्थानां मुदं कुमुदिनीमिव । द्रौणिः पितृवधक्रोधादधावदरुणद्युतिः ॥५२१॥
१. ‘पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ' । इति हैम : (१२४) । अदन्तोऽप्ययं शब्दः । ‘प्राक्प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्' । इत्याश्चर्यमञ्जर्यामदन्तत्वदर्शनादिति मुकुटोल्लेखात् ।