SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ [५५९ 10 त्रयोदशः सर्गः । युद्धवर्णनम् ॥] द्रोणबाणान् विलुप्यापि धृष्टद्युम्नशरावलिः । क्षणं रेमे तपस्यान्ते मिहिकेव' रवे: करान् ॥४९६॥ ततः क्रमाद्विवर्धिष्णुराचार्गीय शरोत्करः । आतपोऽपरनैदाघ इवाभूदतिदुःसहः ॥४९७।। तदाश्वत्थामनामैव मालवेश्वरकुञ्जरः । कालवबलसंहारमावहन्नाहवे हतः ॥४९८॥ अश्वत्थामा हतः सोऽयमभीक्ष्णमिति वादिनाम् । सैनिकानां समुत्तस्थौ तदा कोलाहलो महान् ॥४९९॥ लोकवाक्ये गुरुस्तस्मिन्कर्णमूलमुपेयुषि । अश्वत्थाम्नि निजे सूनौ मृत्युशङ्कामधारयत् ॥५००॥ अनर्जुनैस्ततो भीमकैटभारिपुर:सरैः ।। लम्भितो वचनैस्तैस्तैर्दाक्षिण्यमतिदुःसहम् ॥५०१॥ नीचैः कथञ्चिदव्यक्तं व्याजहार युधिष्ठिरः । अश्वत्थामा हतो हन्त ! हतो हन्तेति भारतीम् ॥५०२॥ युग्मम् । तामाकर्ण्य स्फुटत्कर्णं गिरमाजातशात्रवीम् । तस्यामव्यभिचारित्वप्रत्ययैकनिषण्णधीः ॥५०३॥ उन्मीलत्सुतशोकोर्मिपरिप्लावितमानसः । संन्यस्यति स्म तत्कालमाचार्यः सर्वमायुधम् ॥५०४॥ युग्मम् । तदैव मुरजिद्वाचा रथात्खगमिव द्रुमात् । द्विषन्नैष्पेषिकैर्बाणैर्दीपदिस्तमपातयत् ॥५०५॥ हतोऽश्वत्थामनामायं गजो न तु तवात्मजः । नृपेण पुनरित्युक्ते कुपितो गुरुरब्रवीत् ॥५०६॥ त्वया राजन्निदं सत्यव्रतमाजन्म धारितम् । ब्राह्मणस्यास्य वृद्धस्य केवलं मृत्यवे गुरोः ॥५०७॥ इत्याद्यन्यदपि क्रोधाद् भारद्वाजेऽभिधातरि । उन्मीलति स्म वाग्व्योम्नि तत्कालमशरीरिणी ॥५०८॥ 15 20 25 १. हिमम् । २. युधिष्ठिरसंबन्धिनीम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy