SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५५८ ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ केषाञ्चित्पतिताः श्वेतखेटकेष्वसियष्टयः । रेजिरे हरिणाङ्केषु स्वर्भानुरसना इव ॥ ४८३ ॥ दन्तारूढोऽवलम्ब्यान्यः कर्णं कृष्टासिधेनुकः । आदातुं मौक्तिकानीव न्यशुम्भत्कुम्भयोरिभम् ॥४८४॥ यद्यप्याश्वेव केषाञ्चिन्मार्गणा गुणमत्यजन् । तथापि न क्वचित्प्रापुः सपक्षत्वाद्विलक्षताम् ॥४८५॥ अन्येषां यदभूद्भूम्ना करो निस्त्रिंशसङ्गमी । जघान ललनाः कीर्तीः शङ्के तेनैव विद्विषाम् ॥४८६॥ उदस्थिताथ पार्थानामनीकिन्येकहेलया । पिपासुर्गुरुरब्धीनामम्भांसीव घटोद्भवः ||४८७॥ नूतनाम्भोदवत्तस्मिञ्शरासारं विमुञ्चति । हंसैस्तत्यजिरे सर्वशडीरतनुदीर्घिकाः ॥४८८॥ तस्योपकर्णिकाः कर्णेजपा इव पतत्रिणः । केषां नाम रणेऽभूवन्न वीराणामरुंतुदाः ॥४८९ ॥ अभिचारकमन्त्राभं दधानस्तत्तदायुधम् । बद्धमूतिरथर्वेव दिदीपे सोऽधिकं तदा ॥४९०॥ तस्मिन्वीरान् शरव्रातजातवेदसि जुह्वति । स्फारैरिष्वासविस्फारैरभिचाराक्षरायितम् ॥४९१॥ क्ष्माभुजो वीक्ष्य कोदण्डदण्डधारिणमाहवे । सैन्यसंहारिणं विप्रमूर्त्या तं मेनिरेऽन्तकम् ॥४९२॥ कल्पान्ताम्भोधिरुद्वेल इव विश्वम्भरातलम् । प्लावयन् पाण्डवानीकं निजनाराचवीचिभिः ॥४९३॥ व्योमाङ्कचुम्बिभिस्तैस्तैः सायक श्रेणिसेतुभिः । आचार्यः स्खलयाञ्चक्रे धृष्टद्युम्नेन तत्क्षणात् ॥४९४॥ युग्मम् । तयोरथ मिथःक्षिप्तगार्ध्रपक्षसहस्रयोः । तरङ्गिताप्सरोरङ्गः सङ्गरः समभूच्चिरम् ॥४९५ ॥ १. राहुजिह्वा । २. अच्छिनत् । ३. खङ्गसंगमवान् । ४. द्रोणाचार्यः । ५. अगस्तिमुनिः । ६. पक्षे-प्राणैः । ७. अथर्ववेदः । ८. धनुष्टङ्कारैः । ९. गृध्रपक्षनिर्मिताः बाणा: गार्ध्र पक्षाः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy