SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] तमस्यगणितात्मीयपरकीयभटे ततः । बद्धक्रोधमयुध्येतामनीकिन्यावुभे अपि ॥ ४७० ॥ भटोपरि भटाः पेतुस्तुरगास्तुरगोपरि । मातङ्गोपरि मातङ्गाः स्यन्दनाः स्यन्दनोपरि ||४७१॥ वीरशोणितमैरेयैर्बद्धपानोत्सवेऽन्तके । उच्चतालायितं तस्मिन्समरेऽस्थिच्छिदारवैः ॥४७२॥ निरीक्ष्य चतुरो यामान्निशाऽप्येनं रणोत्सवम् । श्रान्तेव शान्तिमायासीद्युध्यमानास्तु नो भटाः ||४७३॥ सहानूरुप्रकाशेन विकसन् द्रोणविक्रमः । द्रुतमद्रावयत्तांस्तान्कौशिकानिव शात्रवान् ॥४७४॥ विश्वोपकारिणौ शश्वत्सतां वल्लभतां गतौ । कीर्तिमल्लीनवामोदमोदिताशेषविष्टौ ॥४७५॥ तावुच्चापक्रियारौद्रौ विराटद्रुपदौ गुरुः । धर्मार्थाविव कंदर्पो विहन्ति स्मैकलया ॥ ४७६ ॥ युग्मम् । रात्रिमुल्लुप्य पूर्वस्यां पतिर्भासामथोदगात् । उत्साहः श्रान्तिमुच्छिद्य सेनयोश्च द्वयोरपि ॥ ४७७॥ उभयोरप्यनीकिन्योः कङ्कपत्रपरम्पराः । अर्कस्य च करश्रेण्यः प्रसस्रुर्गगनाङ्गणे ॥४७८॥ अन्वगुर्वीरचक्राङ्काः कुरुक्षेत्रासृगापगाः । नदीरन्याः प्रफुल्लाब्जाः प्रत्यग्रातपलोहिनीः ॥४७९॥ त्यज्यते स्म तदा चापैरार्जवं सगुणैरपि । ध्रुवं तद्भङ्गुरा तेषामभूत्पर्वपरम्परा ॥४८०॥ वितेने मण्डपः कैश्चिदकाण्डे काण्डमण्डलैः । दीर्घनिद्रां सुखेनान्ये तच्छायायां समासदन् ॥४८१॥ दत्तेऽपि धन्विभिर्लक्ष्ये मार्गणत्वं न तेऽत्यजन् । मन्ये तेनैव नारोहपत्रिणस्तं गुणं पुनः ॥ ४८२ ॥ १. मैरेयं मद्यम् । २. अनूरुः अरुणः । [ ५५७ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy