________________
५५६]
10
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ वानेयमिव मातङ्गं कौरवारण्यमाथिनम् । वारि गर्त इवोदीर्णः कर्णस्तमरुणत्क्षणात् ॥४५७॥ युध्येते स्म ततः क्रोधबोधितोद्दामविक्रमौ । संपरायरसोदञ्चत्कचौ कर्ण-घटोत्कचौ ॥४५८॥ अश्मभि:मिनिर्मुक्तैः कर्णसायकचूर्णितैः । दिशोऽभूवन्नसृक्शान्तरजसोऽपि रजस्वलाः ॥४५९॥ रक्षःक्षिप्तद्रुमच्छेदेऽप्यङ्गेशस्य शिलीमुखैः । न पर्याप्यत तत्पुष्पोड्डीनैस्त्वानशिरे दिशः ॥४६०॥ मोहयन्वाहिनीं सर्वां स्फुरन्दिवि रथे भुवि । क्रीडयैव हिडम्बाभूरारेभे योद्धमाशुगैः ॥४६१॥ राधेयीयास्तदीयाश्च मिथःसंवलिताः पथि । पत्रिणोऽपि रणक्रीडामिवाघातैवितेनिरे ॥४६२॥ समं दोर्दण्डशौण्डीर्यसौष्ठवैरतिनिष्ठुराः । कर्णस्य मार्गणान्मार्गे चिच्छिदुस्तस्य सायकाः ॥४६३॥ यावन्तः कालपृष्ठेन निष्ठ्यूताः पत्रिणोऽभ्यगुः । तत्सहस्रगुणानेव सुषुवे तस्य कार्मुकम् ॥४६४।। कोदण्डे केतुदण्डे च सारथौ च हयेषु च । निर्वर्ण्यन्ते स्म कर्णेन पतन्तस्तच्छराः समम् ॥४६५॥ इत्याकुलीकृतस्तेन दत्तां देवतया पुरा । देहिनीमिव विक्रान्ति मूर्तामिव जयश्रियम् ॥४६६॥ वधाय मध्यमस्यैव पाण्डवेयस्य सम्भृताम् । एकवीरवधे शक्तां शक्तिमङ्गेश्वरोऽग्रहीत् ॥४६७॥ युग्मम् । स क्रुधेव तया कामं स्फुरद्वह्निस्फुलिङ्गया । समं पार्थ(र्थाऽ)प्रमोदेन संजघान घटोत्कचम् ॥४६८॥ खेलति स्म तदा शोकः पाण्डवानां बले मनाक् । पुनरुज्जीवितेवाभूत्कौरवीया तु वाहिनी ॥४६९॥
15
25
१. वनसंबन्धिनम् । २. हस्तिबन्धनस्थानम् । ३. वृक्षपुष्पाणामुड्डयनैः । ४. कर्णधनुर्नाम ।