SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 ४२ ] [ पाण्डवचरित्रमहाकाव्यम् । कुन्त्यवस्थादर्शनं ॥ विपर्येति विपर्यस्तैर्भाग्यैर्भुवनमप्यदः । मम येनोल्मुकायन्ते चन्द्रस्यापि मरीचयः ॥ ५०८ ॥ हेतोः कुतोऽपि तातो मां न तस्मै दातुमीहते । हा ! हा ! मातर्निराशाऽस्मि शरणं मृत्युरेव मे ॥५०९॥ ततस्तामभ्यधाद्धात्री वत्से ! मा स्मोत्सुका भव । दुष्प्रापः प्राप्यते प्रेयान्कृशोदरि ! किमुत्सुकैः ॥५१०॥ उपायं चिन्तयिष्यामि कञ्चिदव्यभिचारिणम् । झटित्येव यदाकृष्टं द्रष्टासि पुरतः प्रियम् ॥५११॥ इत्थमाश्वास्यमानाऽपि यादवेन्द्रसुता यदा । भृशं लब्धात्मलाभेन सन्तापेनाभ्यभूयत ॥५१२॥ तदा धात्री ययौ दूरं नवपल्लवहेतवे । त्वरन्ते भृशमाप्ता हि स्वजनव्यसनोदये ॥५१३॥ अथान्तश्चिन्तयामास यादवेश्वरनन्दिनी । दिष्ट्या निरन्तरायोऽयं समयो मम मृत्यवे ॥५१४॥ विचिन्त्येति दृढाबद्धनीविः संयमितांशुका । अशोकपादपस्याधः सन्नद्धोद्बन्धनाय सा ॥५१५॥ इह सन्निहिताः सर्वाः शृण्वन्तु वनदेवताः । जन्मान्तरेऽपि भूपालः पाण्डुरेवास्तु मे पतिः ॥५१६॥ अभिधायेति शाखायाः कण्ठे पाशं व्यधात्पृथा । अयं प्रायः प्रतीकारः स्त्रीणां हि व्यसनोदये ॥५१७॥ युग्मम् । पाशालम्बितमात्मानं सा स्म यावद्विमुञ्चति । असिधेनुकरस्तावद्धात्रीपतिरधावत ॥ ५१८॥ एतेनालमलं बाले ! साहसेन तवाधुना । इति जल्पन्नृपः कण्ठात्तस्याः पाशमपाच्छिदत् ॥५१९॥ अध:पतन्तीमुद्गच्छन्मूर्छामुत्सङ्गशायिनीम् । कृत्वा पृथ्वीपतिः क्षौमपल्लवैस्तामवीजयत् ॥५२०॥ संज्ञामासेदुषी साऽथ चिन्तयामास शङ्किता । पुमानहह ! को नाम मामेवं वीजयत्ययम् ? ॥५२१॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy