________________
[४३
प्रथमः सर्गः । पाण्डु-कुन्त्यो र्गान्धर्वविवाहः ॥]
पाण्डोरन्यस्य हा ! क्रोडे शेते कुन्त्यपि धिग्विधिम् । जीवितादपि सत्यो हि धनायन्ति सतीव्रतम् ॥५२२॥ एषोऽपि कोरकाख्यातरूपसारुप्यमश्नुते । नृणामन्योन्यमाकारसंवादो वा पदे पदे ॥५२३।। कथमस्य वपुःस्पर्शो मां सिञ्चत्यमृतद्रवैः ? । ममानुकम्पया तत्कि स एवायमुपागमत् ? ॥५२४॥ कुतोऽथ वा ममैतानि भागधेयानि जाग्रति ? । इति चिन्तापरा यावदृशा स्पृशति तद्वपुः ॥५२५॥ कारुण्यादिव शीतांशुरस्यास्तावददर्शयत् । नृपकङ्कणयोः पाण्डुराजस्यैवाक्षरावलीम् ॥५२६॥ ततः स्निग्धैश्च मुग्धैश्च सविकल्पैश्च लोचनैः । पश्यन्ती तामभाषिष्ट सप्रेमा पृथिवीपतिः ॥५२७।। अलं विकल्पैस्तन्वङ्गि ! स एवास्मि तव प्रियः । गुणैः कुन्दावदातैस्तेः समाकृष्टः समागमः(मम्) ॥५२८॥ पटचित्रेऽपि दृष्टा मे मनःपूर्वमपाहरः । कृशाङ्गि ! वपुरप्यागान्मनोऽनुपदि मेऽधुना ॥५२९।। मण्डलीकृतकोदण्ड: स्वयं साहायके स्थितः । ममात्तमार्गणो मार्गे स्मर एवाभवत्पुरः ॥५३०॥ इति वादिनि भूपाले तत्र धात्री समेयुषी । तैस्तैर्निश्चित्य तं पाण्डं चिरैः कुन्तीमवोचत ॥५३१॥ वत्से ! पाण्डुमहाराजस्त्वामुपागात्प्रियोऽतिथिः । प्रथयातिथ्यमुत्थाय तन्मनः प्रणयोचितम् ॥५३२।। इत्युक्ता सा समुत्तस्थौ सलज्जमवदच्च ताम् । जानामि किमहं मातरुचितं सर्वमाचर ॥५३३॥ तयोविधाय गान्धर्वं विवाहमथ भूपतिम् । उवाच धात्री धात्रीश ! यत्ते कस्यास्ति तत्कुलम् ॥५३४॥
15
25
१. धिग्विधिः, धिग्विधेः इति प्रत्य । २. राजस्येत्यक्ष० प्र० द्वय० । ३. यत् कुलं ते तवास्ति, तत्कुलं कस्यान्यस्य अस्ति ? नास्तीत्यर्थः ।