SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५५४] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ सद्योमुकुलिताशान्तं पलायितनभश्चरम् । वीरावतंसयोरासीच्छराशरि तयोः क्षणम् ॥४३१॥ तथाऽतिनिचितं तेने किरीटी शरदुर्दिनम् । सैन्धवस्य यथा तस्मिञ्शराश्चेरुभियेव न ॥४३२॥ भृशमोजायमानस्याप्यायुधैर्विविधैर्युधि । धात्रीशैस्त्रायमाणस्याप्युच्चैर्दुर्योधनादिभिः ॥४३३॥ गदग्रन्थि प्रतिज्ञायाः स्तम्बं शौर्यवरूथिनः । कीर्तिसिन्धोः स्थलं पार्थश्चिच्छेदास्य शरैः शिरः ॥४३४॥ युग्मम् । गाण्डीवधन्वनः सार्धं हर्षरोमाञ्चकोरकैः । जयद्रथशिरः कृत्तं दूरमुच्छलति स्म तत् ॥४३५॥ गृहीतं नखरैध्रश्रेणिभिलुलितालकम् । तदभूद् भ्रमदभ्येष्यत्तमःसैन्यचरोपमम् ॥४३६।। सैन्धवस्य कबन्धोऽपि शोणितः शोणितद्रवैः । भूमावभ्यधिकोन्मीलत्कोपताम्र इवापतत् ॥४३७॥ हन्ति हन्तायमद्यापि बीभत्सुर्भूयसो भटान् । इतीव करुणाबन्धुः सन्ध्याऽथ त्वरितं ययौ ॥४३८॥ चतुर्दश दिनान्येवं तन्वाना युद्धमुद्धतम् । कौरवाक्षौहिणीः सप्त क्षपयन्ति स्म पाण्डवाः ॥४३९॥ चतुर्दशे दिनेऽथास्मिन्मथिते सिन्धुपार्थिवे । आचार्यस्त्रपया रात्रियुद्धाय बलमादिशत् ॥४४०॥ पीवरेन्दुकपालाङ्का तारास्थिस्रग्विणी ततः । क्षयाय क्ष्माभृतां रात्रिः काली साक्षादिवागमत् ॥४४१॥ समीकाङ्कहतानेकवीरासृक्पानलोलुपैः । नक्तंचरैरलिश्यामैस्तमोभिर्व्यानशेऽवनिः ॥४४२॥ अथान्योऽन्यास्त्रसङ्गट्टलब्धोल्लासैः कृशानुभिः । ववृतेऽस्ततमःस्तोमो वीराणां दारुणो रणः ॥४४३॥ १. रोगग्रन्थिम् । २. शौर्यरथस्य । ३. सन्ध्यावत्त्वरितं प्रत्य० । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy