SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ [५५३ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] कर्णजाहमनारोहत्यर्जुने जलजध्वनौ । धर्मजन्मा पुनर्भीमं प्राहिणोत् तत्प्रवृत्तये ॥४१८॥ विद्राणवाजिनं द्रोणरथमुत्क्षिप्य तत्क्षणात् ।। विवेश मारुतिव्यूहं समूहन् भटमण्डलीम् ॥४१९॥ नवाम्बुवाहमायान्तं प्रतिकूल इवानिलः । कर्णः कर्णान्तिकानीतनाराचस्तमचिस्खलत् ॥४२०॥ कर्वाणौ रणमुत्सर्पिमत्सरौ रेजतुस्तदा । सह्य-विन्ध्याविवोत्तुङ्गावङ्गेशपवनाङ्गजौ ॥४२१॥ पौरुषं पुरुषस्येव दुर्बुद्ध्या विमुखो विधिः । कर्णस्य गदया भीमो निर्ममन्थ वरूथिनम् ॥४२२॥ तदैव द्रुतमास्थाय रथमङ्गेश्वरोऽपरम् ।। भुजौजोभिः सहाभाङ्क्षीद् भीमस्यापि पताकिनम् ॥४२३॥ पतद्भिस्तच्छरासारैरारासारसहोदरैः ।। निर्मीयते स्म दन्तीव निरुच्छ्वासो वृकोदरः ॥४२४॥ कपिध्वजो मया वध्यः कुन्तीपुत्रेषु नापरः । इत्यात्मीयामनुस्मृत्य प्रतिज्ञां प्राग्विनिमिताम् ॥४२५॥ जहार जीवितं नैव कर्णः पवनजन्मनः । विपर्येति प्रतिज्ञा तु कर्हिचिन्न महात्मनाम् ॥४२६॥ युग्मम् । इतश्च स्वप्रतिज्ञाब्धिपारभूमीरुहं पुरः । कपिकेतुर्दिनस्यान्ते पश्यति स्म जयद्रथम् ॥४२७॥ तमालोक्य बभौ जिष्णोः कोपकण्टकितं वपुः । सुतशोकाब्धिशैवालाङ्करैरिव करम्बितम् ॥४२८॥ ताम्राक्षिपुष्पस्तबकं वेपमानौष्ठपल्लवम् । सशोकमप्यशोकत्वं निन्येऽमर्षस्तदाऽर्जुनम् ॥४२९॥ विश्वतेजस्विनामीशे सैन्धवोऽपि कपिध्वजे । आदर्श इव चण्डांशौ दिदीपेऽभिमुखस्थिते ॥४३०॥ 15 20 25 १. रथम् । २. रथम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy