SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 5 ५५२] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ वीरधौरेययोः कामं वनशूकरयोरिव । अजृम्भत रणारम्भस्तयोविश्वभयङ्करः ॥४०५॥ तावन्योन्यमथो ध्वस्तरथौ मथितसारथी । छिन्नेष्वासावयुध्येतां खड्गखेटकधारिणौ ॥४०६॥ आचार्योऽपि बहिव्यूहाद्दीर्घिकामिव सेवधिम् । तपस्तनयमादातुमशुशोषयिषच्चमूम् ॥४०७॥ मन्थत्यमुष्मिन्वीरौघमम्भोधिमिव मन्दरे । कल्लोलानामिवोत्तस्थौ लोकानां तुमुलो महान् ॥४०८॥ इतश्चाक्रम्य केशेषु गृहीत्वा सात्यकेः शिरः । खड्गेनाच्छेत्तुमुद्यच्छमाने भूरिश्रवोभुजे ॥४०९॥ कैटभारिरभाषिष्ट धनंजय ! धनंजय ! । म्रियते म्रियते हन्त पश्यतस्तव सात्यकिः ॥४१०॥ छिन्धि छिन्धि शरैरेनं तद् भूरिश्रवसो भुजम् । वीरमानिभिरात्मीयस्त्रातव्यो हि यथा तथा ॥४११॥ त्रिभिर्विशेषकम् । . तदानीमंशुमन्तं च नमन्तं ददृशुः समम् । पार्थकौरवयोः कोककौशिका इव सैनिकाः ॥४१२॥ तस्मिंश्च समये सव्यसाची साचीकृताननः । समं समापतत्कृत्यव्यग्रत्वादित्यचिन्तयत् ॥४१३॥ इतो राजान्तिके यानमितः सिन्धुपतेर्वधः । इतोऽपि सात्यकेस्त्राणमितश्चास्तोत्सुको रविः ॥४१४॥ इति चिन्तातुरो भूयः प्रणुन्नः शौरिणाऽर्जुनः । चिच्छेद भूरिश्रवसः सकृपाणं शरैः करम् ॥४१५॥ अक्षत्राद्दक्षिणे छिन्ने करतामरसे ततः । स कोपैर्वचनैस्तैस्तैरुपालभ्य कपिध्वजम् ॥४१६॥ निष्क्रामयन्तमभ्यासादब्रह्मद्वारेण मारुतम् । भूरिश्रवसमुत्थाय स्वैरं हन्ति स्म सात्यकिः ॥४१७॥ युग्मम् । 15 20 25 १. निधिम् । २. साचि-वक्रम् । ३. अन्यायात् । ४. प्राणवायुम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy