________________
[५५१
10
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
द्रोणं प्रदक्षिणीकृत्य ततो व्यूहं विवेश तम् । जिष्णुर्विन्ध्याद्रिकान्तारमारण्यक इव द्विपः ॥३९२॥ सर्वेऽप्युर्वीभृतस्तस्य सायकासारवर्षिणः । रयं न सेहिरे कामं वातूलस्येव शाखिनः ॥३९३॥ सुतशोकाग्निसंतापशमायेव किरीटिनः । वैरिणां प्राणवारीणि भृशमाददिरे शरैः ॥३९४॥ दध्मौ तत्रार्जनः शङ्ख देवदत्तं यथा यथा । जयाशा धर्मजादीनां जागर्ति स्म तथा तथा ॥३९५।। अथ स्वबलमालोक्य पार्थबाणैः कदर्थितम् । उत्तस्थे कुरुराजेन्दुरुत्पात इव मूतिमान् ॥३९६॥ द्विपयूथाधिपेनेव विपिने गन्धहस्तिनः । तेन सार्धं चिरं घोरः सङ्गोऽभूत् किरीटिनः ॥३९७॥ तं विलय प्लवङ्गेन्द्रकेतुः सेतुविडम्बिनम् । नदीरय इव स्वैरं प्रतस्थे पुरतो रणे ॥३९८॥ चक्षुषा कोपदीप्रेण दिधक्षन्निव तत्क्षणात् । कंसारिसारथिर्दूरादन्वियेष जयद्रथम् ॥३९९॥ तं मोहमिव कामादीन्भृशमावृत्य तिष्ठतः । तांस्तानात्मेव तेजस्वी पार्थोऽमनान्महारथान् ॥४००॥ इतोऽपि रणवैययाद्देवदत्तध्वनौ स्थिते । किरीटिनि गते दूरं शङ्कितोऽभूत्तपःसुतः ॥४०१॥ तत्प्रवृत्तिमथ ज्ञातुं सात्यकिं सत्यविक्रमम् । द्वैतीयीकमिवात्मानं प्रजिघाय युधिष्ठिरः ॥४०२॥ सोऽथ द्रोणं प्रणामेन वञ्चयन्नधिकत्वरः । तद्व्यूहमविशत्पोत इव स्रोतस्विनीपतिम् ॥४०३॥ तटद्रुमानिव स्वैरमीरयन्स महीभुजः । निम्नगापूरवत्सेतुं भूरिश्रवसमासदत् ॥४०४॥ १. वायुसमूहस्य रयम् । २. देवदत्तः-अर्जुनस्य शङ्खः ।
15
20
25