________________
5
10
15
20
25
५५० ]
[ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥
न चाश्वानां पुरः कीर्णं ददर्श यवसोत्करम् । सिन्धुराणां 'विधापिण्डप्रदानादि न चैक्षत ॥३७९॥ शून्यारण्यनिभां लोकसङ्कलामपि तां चमूम् । वीक्ष्यात्मजन्मनो मृत्युमाशशङ्के कपिध्वजः || ३८०॥ बलादानन्दमुच्छेद्य संसप्तकवधोद्भवम् । तस्यास्तोकः पदं शोकः सूत्रयामास मानसे || ३८१॥ प्रविश्य स नृपावासं ततोऽपृच्छत् तपःसुतम् । सोऽप्येतस्मै यथावृत्तं युद्धोदन्तं न्यवेदयत् ॥ ३८२॥ तत शुद्धान्तमाविश्य शोकवीचिमलिम्लुचैः । सुभद्रां वचनैस्तैस्तैः सान्त्वयित्वा धनंजयः ||३८३॥ अवोचदन्तर्वत्नीयमुत्तराऽस्ति स्नुषा तव । तत्सुतो भवितेदानीमावयोर्नयनोत्सवः ॥ ३८४॥ युग्मम् । प्रत्यश्रौषीच्च चेत्प्रातरादिनान्ताञ्जयद्रथम् । त्वत्पुत्रमृत्युहेतुं नो हन्मि वह्नि विशामि तत् ॥ ३८५॥ अथौर्ध्वदेहिकं सूनोस्ते समाप्य विशश्रमुः । शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ॥ ३८६ ॥ प्रातर्द्रोणोऽथ विज्ञाय तां प्रतिज्ञां किरीटिनः । विकीर्णहृदयस्तूर्णमागत्य समरावनौ ॥३८७॥ प्राणत्राणकृतेऽनेकराजन्यकतिरोहिते ।
सैन्धवं शकटव्यूहसूचीपाशे न्यवेशयत् ॥३८८॥ युग्मम् | पाण्डवा अपि कोदण्डटंकारध्वनिडम्बरैः । क्षोभयन्तो विपक्षौघं रणक्षोणिमुपागमन् ॥३८९॥ अन्योन्यस्खलनाद्दूरमुच्छलन्तो नभस्तले । उभयेऽपि शराश्चेलुः प्राक्प्रत्यञ्च इवानिलाः ॥ ३९०॥ अथ द्रोणस्य जिष्णोश्च विजेतुमनसोरपि । व्याप्रियेतां करौ स्नेहान्न बाणेष्वितरेतरम् ॥३९१॥
१. विधा हस्तिभक्ष्यान्नम् । २. जयद्रथम् ।