SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ [५४९ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] तस्यादलयदिष्वासमङ्गेशः सारथिं कृपः । कृतवर्मा रथं सोऽथ युयुधे खड्गचर्मभृत् ॥३६६॥ तस्य द्रौणिः क्षणात्कोपहव्यवाहस्य दीव्यतः । धूमदण्डनिभं काण्डैर्मण्डलाग्रमखण्डयत् ॥३६७॥ स्वकीर्तिकलमक्षेत्रतृणस्तम्बोपमांस्ततः । चक्रेण राजचक्रस्य मौलीनभ्युद्दधार सः ॥३६८॥ इत्यनेकायुधैर्युद्धं कुर्वन्कोपात् पिपेष सः । गदादम्भोलिना शैलनिभं दौःशासने रथम् ॥३६९।। युध्यमानस्ततस्तेन दुःशासनसुतेन सः । प्रजहे ह्रियमुत्सृज्य समं सर्वैर्महारथैः ॥३७०॥ इति नानास्त्रसंपातजर्जरीकृतविग्रहः । पपात स भुवः पृष्ठे छिन्नमूल इव द्रुमः ॥३७१॥ मृतमारणदौरात्म्यात्स्वकीर्तिलतया समम् । ततो दौःशासनिस्तस्य निस्त्रिंशेनाच्छिनच्छिरः ॥३७२॥ तत्तदानीं द्वयोः कर्म पश्यतां नाकिनामभूत् । मुखेषु साधुवादस्य हानादस्य च सङ्करः ॥३७३॥ तदानीं चार्जुनेः शौर्यसन्तुष्टः पुष्पवृष्टये । पुष्पाणि रविरुच्चेतुमिवास्ताद्रिवनं ययौ ॥३७४॥ अवहारे प्रतीहारपूरुषैर्विहिते ततः । ते उभे अप्यनीकिन्यौ स्वं स्वं शिबिरमीयतुः ॥३७५।। त्रैगन्स्वभुजावर्ते कीर्तिशेषानथार्जनः । निर्माय यावदागच्छच्छिबिरं तनयोत्सुकः ॥३७६॥ तावदैक्षिष्ट तत्सर्वं निमग्नं शोकसागरे । मनःकदनमाक्रन्दध्वनि चान्तःपुरेऽशृणोत् ॥३७७॥ न चापि क्वचिदश्रौषीद्वीराणां रणसंकथाः । भटानां विकटाटोपां वाचमाकर्णयन्न च ॥३७८॥ १. दुःशासनपुत्रस्य ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy