SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५४८] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ एत्य द्रोणो रणक्षेत्रं धर्मसूतेजिघृक्षया । चक्रे संसारचक्राभं चक्रव्यूहं दुरुत्तरम् ॥३५३॥ पाण्डवा अपि निःशेषैरभिमन्युपुर:सरैः । सार्धं धनुधरैर्युद्धधरित्रीमध्यशेरत ॥३५४॥ रक्तपाटलविस्फूर्जच्छिलीमुखकुलाकुलः । प्रवीरजीवनग्रीष्मः समरः सैन्ययोरभूत् ॥३५५॥ अभिमन्यु पुरोधाय चत्वारोऽप्यथ पाण्डवाः । सौष्ठवेनोदतिष्ठन्त कल्पान्तमिव सागराः ॥३५६॥ ते यमा इव पञ्चापि द्रोणं निर्जित्य कर्मवत् । दुर्भेदं विभिदुश्चक्रव्यूह संसारचक्रवत् ॥३५७॥ क्षान्त्यादिभिः फलोदग्रैः कषायानिव संयमी । पाण्डवांश्चतुरोऽरौत्सीत् कङ्कपत्रैर्जयद्रथः ॥३५८।। समन्युरभिमन्युस्तु निस्तुषोत्साहसाहसः । तं व्यूहमविशद्भीष्मं पातालविवरोपमम् ॥३५९॥ निहन्ति स्म स एकोऽपि कोटिशः सुभटान् रणे । उद्वेलो हि महाम्भोधिः सर्वान् प्लावयते गिरीन् ॥३६०॥ तस्यैकधन्विनो भूपाः शरैर्विव्यथिरेऽधिकम् । अकालजलवाहस्य सलिलैरिव शालयः ॥३६१॥ शल्य-कर्ण-कृप-द्रौणि-कृतवर्म-सुयोधनैः । स नासह्यत सस्यौघैस्तीव्रताप ईवानलः ॥३६२॥ तान् विक्षिप्य क्षिणोति स्म लक्ष्मणप्रभृतीनसौ । बहून्कुमारान्दुष्कर्ममहिमेव मनोरथान् ॥३६३॥ अथैनं दुर्जयं ज्ञात्वा कौरवानीकनायकाः । तुल्यमावारिषुः सर्वे कोलं कौलेयका इव ॥३६४॥ तमेकमपि तेऽभूवजेतुं विश्वेऽपि नेश्वराः । शृगाला इव शार्दूलं तरणिं तारका इव ॥३६५॥ १. जीवन-प्राणः, पक्षे जलम् । २. यमाः प्राणातिपातविरत्यादयः । ३. इवानिलः एकप्रतिपाठः साधुः । ४. वराहम्। 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy