SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ [५४७ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] ह्रियन्ते स्म क्षणात्प्राणास्तेन प्राग्ज्योतिषेशितुः । वारिवर्षेण कासारस्येव राजीवराजयः ॥३३९॥ हते सकुञ्जरे तस्मिञ्जिष्णुना राजकुञ्जरे । कौरवीयबले राज्ञां शृङ्गभङ्ग इवाभवत् ॥३४०॥ दयालव इव प्राणिकदम्बकदने तदा । दिक्पुरंध्यः प्रणुद्योच्चैर्निन्युरस्तगिरौ रविम् ॥३४१॥ द्रोणोऽथ पाण्डवानीकाव्यावृत्य स्वबलं ययौ । सरित्प्रवाहतो वेलाजलौघ इव सागरम् ॥३४२॥ प्रतिषिद्ध ततो युद्धसंरम्भे वेत्रपाणिभिः । वरूथिन्यावुभे स्वं स्वं स्कन्धावारमुपेयतुः ॥३४३॥ मध्यरात्रे ततः पाण्डु-पुत्राणां गूढपुरुषाः । अभ्येत्य कौरवानीक-किंवदन्तीमचीकथन् ॥३४४॥ भगदत्तवधक्रुद्धो भारद्वाजो गुरुः प्रगे । चक्रव्यूहं तपःसूनुमादातुं रचयिष्यति ॥३४५॥ चरवाचमिति श्रुत्वा चक्रव्यूहभिदाविधिम् । सर्वैरालोचयांचक्रुः पार्षदैः सह पाण्डवाः ॥३४६।। अभिमन्युरथावादीदा निर्महिमोर्जितः । द्वारकायां पुरा तिष्ठन्प्रवासे वः पुरान्निजात् ॥३४७।। मुखात्कस्यचिदश्रौषमहं गोविन्दसंसदि । प्रवेशं केवलं चक्रव्यूहस्य न तु निर्गमम् ॥३४८॥ युग्मम् । भाषते स्म ततो भीमस्तत्कृतं शङ्कयाऽधुना । त्रैगर्तविजये प्रातर्गतेऽपि प्लवगध्वजे ॥३४९॥ चत्वारोऽपि वयं सर्वान्निभिद्य प्रसभं भटान् । मार्गमासूत्रयिष्यामो निर्गमाय बलादपि ॥३५०॥ युग्मम् । इत्यालोच्य ततः सर्वे पाण्डवाः सपरिच्छदाः । विश्रमाय रणश्रान्ताः स्थानं जग्मुनिजं निजम् ॥३५१॥ प्रातर्जिष्णुस्तपःसूनुमभिमन्युं च रक्षितुम् । नियुज्य कामं भीमादीन् संसप्तकजये ययौ ॥३५२॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy