SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५४६ ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ तेनाहतास्तथा केचिच्चीत्कुर्वन्ति स्म दन्तिनः । जग्मुस्त्रासाद्भुवं दूरां यथाऽन्येऽवमताङ्कुशाः ॥३२६॥ तेन केचन दन्ताग्रप्रोतोत्क्षिप्ताः करेणवः । रेजुरद्रीन्द्रशृङ्गस्थास्तोयदा इव नूतनाः ॥३२७॥ द्विषत्कीर्तिश्रवन्तीनामादिशैला इवामुना । पातयाञ्चक्रिरे केचित्प्रहृत्य द्विरदा रदैः ॥३२८॥ एवं पाण्डवसैन्यानां तेन दुर्दान्तदन्तिना । शुश्राव मृद्यमानानां दूरादाक्रन्दमर्जुनः ॥३२९॥ हतशेषान्परित्यज्य ततः संसप्तकान् युधि । अन्धंभूष्णुः क्रुधा कामं दधावे वानरध्वजः ||३३०|| तं ततो निशितैर्बाणैः समातङ्गमतल्लिकाम् । साग्रहः प्रतिजग्राह जिष्णुः प्राग्ज्योतिषेश्वरम् ||३३१॥ नवोन्मीलन्मदासारपानैकस्पृहयालवः । तं महेभमनूच्चेलुः फाल्गुनस्य शिलीमुखाः ||३३२॥ निष्पुण्यक इवोत्तुङ्गमर्थं प्रति मनोरथम् । भगदत्तोऽपि तं नागमन्वर्जुनमनोदयत् ॥३३३॥ महातिमिरिवाम्भोधि महोर्मिमतिभैरवम् । तमायान्तमिभं पार्थः क्षुरप्रैर्विदधे द्विधा ||३३४|| दर्शयन् भगदत्तोऽथ महामात्रकलां निजाम् । ऊरुभ्यां गाढमाक्रम्य क्रमयामास तं बलात् ॥ ३३५॥ तथैव प्रथयन्सैन्यसंमर्दमतिदुर्दमः । किरीटिनमनुक्रोधात्ततोऽधावत् स सिन्धुरः ||३३६॥ तदा तेनावदानेन सानन्दमनसोऽमुचन् । दिवौकसो दिवः पुष्पवर्षं प्राग्ज्योतिषेश्वरे ॥ ३३७ ॥ तत्तस्मिन्नपतत्पश्चाद् भगदत्ते महीपतौ । पूर्वमेवेषुवर्षं तु पतति स्म किरीटिनः ॥ ३३८ ॥ १. पराक्रमेण ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy