SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । भीष्मस्य दीक्षा ॥] तत्तवार्पयितुं न्याय्यं राज्यं ज्येष्ठेयुधिष्ठिरे । स्वयं पूर्वमिव स्थातुमिन्द्रप्रस्थे तु युज्यते ॥२६०॥ उत्सार्य परतः किञ्चिज्जनमासन्नवर्तिनम् । कौरवेश्वरमेकान्ते गाङ्गेयः पुनरभ्यधात् ॥२६१॥ वत्स ! षाड्गुण्यचिन्तायामपि संधिस्तवोचितः । विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥२६२॥ तेषु तेषु समीकेषु शैशवात्प्रभृति त्वया । बहुकृत्वः समालोकि बलं भीमकिरीटिनोः ॥२६३।। नीतिमान्नतिमानेव सञ्जायेत बलीयसि । धावमाने धुनीपूरे नमन्नन्दति वेतसः ॥२६४॥ व्याजेन दर्शितेदानीं पार्थचापकला तव । ममोपधानपानेच्छा त्यक्तदेहस्य का पुनः ? ॥२६५।। तदद्यापि तपःसूनोः श्रियं प्रत्यर्पय स्वयम् । रक्ष रक्ष विशेषज्ञ ! शेषराजन्यकक्षयम् ॥२६६।। इत्युक्तस्त्यक्तमर्यादः सुदुर्बोधः सुयोधनः । वर्धमानमनःसादः समादत्त शनैर्वचः ॥२६७।। अन्तरेण रणं तात ! पाण्डवेभ्यो ध्रुवं मम । मनो नखशिखामात्रामपि धात्री न दित्सति ॥२६८॥ उच्छलन्मत्सरोत्सेकपिच्छलामिति भारतीम् । श्रुत्वा दौर्योधनी दूरं दूयते स्म पितामहः ॥२६९॥ अथासौ निश्वसन्नुच्चैविभाव्य भवितव्यताम् । संभाष्य धृतराष्ट्रादिज्ञातिवर्गं पृथक्पृथक् ॥२७०।। भरतार्धपतिर्भूत्वा हरे ! शासनमार्हतम् । प्रभावयेः प्रकारैस्तैस्तैरित्याशास्य केशवम् ॥२७१॥ आलोच्य पापकर्माणि स्वादयन्समतामृतम् । श्रीभद्रगुप्तसूरीणामन्तिके व्रतमाददे ॥२७२॥ त्रिभिशिषेकम् । ज्ञानचक्रेण मिथ्यात्वदण्डनाथमथोन्मथन् । भिन्दानः समताशक्त्या रागद्वेषमतङ्गजौ ॥२७३॥ 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy