________________
५४२] [पाण्डवचरित्रमहाकाव्यम् । भीष्ममुनिनाकृतं मोह नृपेन सह युद्धम् ॥
ध्यानकुन्तेन दुर्दान्तानिन्द्रियाश्वानुपद्रवन् । क्रोधादियोधसङ्घातं निजन्बाणैः श(क्ष)मादिभिः ॥२७४॥ श्रद्धासंनद्धसर्वाङ्गो गाङ्गायनिमुनिस्ततः । सङ्ग्रामयितुमारेभे मोहराजेन निर्भयः ॥२७५॥ त्रिभिर्विशेषकम् । मुनिमेकैकशो नत्वा तत्त्वैकमनसं ततः । सास्राः सर्वे निजावासाञ्जग्मुः पाण्डवकौरवाः ॥२७६॥ प्रम्लानवदनं किञ्चिच्चिन्तामुकुलितेक्षणम् । भारद्वाजस्तदाभ्येत्य कौरवेश्वरमभ्यधात् ॥२७७॥ राजन् ! का नाम ते सत्त्वनिषण्णस्य विषण्णता ? । चिन्ता च केयमाचान्तस्वान्तशौण्डीर्यडम्बरा ? ॥२७८।। शोच्यं किमिव तस्यास्ति शान्तनोस्तनुजन्मनः ? । येनैवमदवीयांसो वीरलोका वितेनिरे ॥२७९।। न नाम वीरधौरेयमन्यं मन्ये पितामहात् । बाह्येष्विवान्तरङ्गेषु विक्रान्तं येन वैरिषु ॥२८०॥ रणे तु दक्षिणे सत्यप्यस्मिन्वामधुरीणता । ममैवासीत्तदन्तः किं चिन्तया परितप्यसे ? ॥२८१॥ प्लवङ्गकेतुना राजन्ननध्यासितसन्निधिम् । बद्ध्वा धर्मात्मजं नूनमर्पयिष्यामि ते युधि ॥२८२॥ इति द्रोणगिरा चिन्तामुल्लूय मनसः क्षणात् । धार्तराष्ट्रोऽवपत्तस्मिन्सद्यः पल्लविनीर्मुदः ॥२८३॥ तदैव सूत्रयामास स द्रोणं पृतनापतिम् । दन्तीन्द्रस्यैव दन्तीन्द्रव्यापारेऽलंभविष्णुता ॥२८४॥ प्रातस्तद्विहितव्यूहरचनारञ्जिताशयः । आयोधनधुरां दुर्योधनः स्वैरमवातरत् ॥२८५॥ कौन्तेया अपि गाङ्गेयदुर्दशादुर्मनायिताः । जयाशासप्रमोदाश्च समीकमुपतस्थिरे ॥२८६।।
15
20
25
१. मनसः प्रतिद्वये० । २. रणधुराम् ।