SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ५४०] [पाण्डवचरित्रमहाकाव्यम् । भीष्मवृत्तान्तः ॥ विज्ञाय तदभिप्रायं सोऽपि शस्त्रास्त्रकोविदः । मण्डलीकृत्य कोदण्डं संदधे वारुणं शरम् ॥२४७॥ उद्यदानन्दगोविन्ददृष्टिपातपवित्रितः । यदैवापातयत्पार्थस्तद्विच्छेदमधोमुखम् ॥२४८॥ स्वच्छां तदैव तत्कीर्तित्रिस्रोतःस्रोतसः सखीम् । सर्वेऽप्यैक्षन्त निर्यान्तीं वारिधारां धरातलात् ॥२४९॥ युग्मम् । पाण्डवानां कुरूणां च दृष्टिपातैः सितासितैः । जाह्नवी-यमुनासङ्गभङ्गिमङ्गीचकार सा ॥२५०॥ ततस्तत्तोयमादाय किरीटी भीष्ममभ्यगात् । सोऽपि नेत्रपुटैः पीत्वा प्रीतः पार्थमभाषत ॥२५१॥ वारीदमानयन्नेव तृष्णां त्वं वत्स ! मेऽच्छिदः । रोचिरुल्लासयन्नेव कोकस्येव शुचं रविः ॥२५२॥ तन्निषीद सुखं वत्स ! ज्यायसो भ्रातुरन्तिके । एभिश्च विजयीभूयाः स्वगुणैर्भुवनातिगैः ॥२५३॥ दुर्योधनमथोवाच हितां वाचं पितामहः । पार्थावदानतस्तस्य म्लानमुन्नमयन्मुखम् ॥२५४॥ अस्मिन्कुरुकुले जन्म वत्स ! पुण्यैरवाप्यते । अनुत्तरेषु सम्भूतिर्न सम्यग्दर्शनं विना ॥२५५॥ एतत्कुलोचिता एव विस्फुरन्ति गुणास्त्वयि । सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥२५६॥ तथापि वत्स ! वात्सल्यादिदानं किञ्चिदुच्यसे । विनयं च नयं चापि गुणावेतौ पुरस्कुरु ॥२५७॥ विनयो विनयार्हेषु कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रेः पश्याद्यापि कियद्यशः ? ॥२५८॥ क्रमानतिक्रमः कस्य न स्यादुदयहेतवे ? । क्रमेण क्रामतां पश्य ज्योतिषामुदयो ध्रुवः ॥२५९॥ 15 20 25 १. वाप्रथयत् प्रत्यन्तर० । २. गङ्गाप्रवाहस्य । ३. अर्जुन पराक्रमात् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy